________________
भूमिका । तन्त्रवार्तिकम् 'उक्तं च कर्तव्यताविषयो नियोगः कर्तव्यतामाह' इति बृहती १०९ पृ. उद्धरन्तः प्रभाकरादप्यर्वाचीना इति प्रतीयते अस्मिन्नेव प्रतीके 'जरप्राभाकरोन्नीतार्थ गुरोर्वचः संगच्छत इत्याह' इति न्यायकणिकादर्शनात् मण्डनमिश्राः कश्चन वृहतीटीकाकतोरं स्मरन्ति इत्यवगम्यते एवं च प्रभाकरभट्टीम्बेकमण्डनमिश्राणामेकगुरुकत्वमत्यन्तमसम्भवि एकगुरुकाणां परस्परं स्पर्धाया एव दर्शनेन टीकाकर्तृत्वासम्प्रतिपत्ते इदं तु अवश्यं सिध्यति यत् कुमारिलभट्टादनन्तरं मण्डनमिश्रस्तदनन्तरं च भट्टोम्वेक इति मण्डनमिश्रत्य ७५० ई० वषोंदारभ्य ८३० वर्षपर्यन्तं स्थितिसमयः शङ्कराचार्याणां च ७८८ ई० वर्षः जन्मसमयः ततः परं द्वात्रिंशद्वर्षाणि च स्थितिः। मण्डनमिश्र एव सुरेश्वराचार्य इति तु संदिग्धम् यतः नैष्कर्म्यसिद्धादौ सुरेश्वराचार्यो मण्डनमतं खण्डयति इति केचित् । सम्भवति तु तदिति तु नयम यथा वाचस्पतिमिश्रा एव तत्तच्छास्त्रेषु स्वपरिगृहीतमतम्यापि खण्डनं कुर्वन्ति तद्वत् । ___ वाचस्पतिमिश्राणां च समय: 'श्रीवाचस्पतिमिश्रेण वम्बकत्रसुवत्सरे । न्यायसूचीनिवन्धोऽसावकारि सुधियां मुदे' इति पद्यात ८४१ ई० वर्षः निश्चितः । तर्काम्बगप्रमितेष्वतोतेषु शकान्ततः । वर्षेषूदयनप्रके सुबोधां लक्षणावलीम् इति पद्यान-उदयनाचार्याश्च ९८४ ई० वर्षे आमन्निति ।
न्यायम रोकारो वाचम्पनिमिपादनन्तर कालभाषी यतः ६२ पृष्ठे न्याय. मजा आचार्यास्तु इत्यनेन वाचस्पतिमिश्रमतमनुदति एवं च ८४० ई० वर्णदारभ्य ९०० वर्षपर्यन्तोऽन्य समय इति स्थितम । मुक्तापीडम्य समयः ७१० ई० वर्षदारभ्य ७६० तस्य च मन्त्री शक्तिस्वामी तस्य समयः ७२५-७८० ई०. पर्यन्तः तस्य सूनुः कल्याण वामी ७५०-८२० पर्यन्तं तस्य मूनः कान्तः ८१०-८७० वर्षपर्यन्तमिति ८५० ई. ९१० वर्षपर्यन्तो जयन्तभट्टस्य स्थिति. समयो निश्चीयत ।
अयं च कर्ममीमांसानिष्णातानां कुलेऽभूदिति एतद्ग्रन्थात् 'तथाह्यस्मत्पितामह एव ग्रामकामः साग्रहणी कृतवान् स एव समाप्त्यनन्तरमेव गौरमूलकं ग्राममवाप' इति लेखादवगम्यते ।
_ जयन्तभ वंशपरिचय:जयन्तभट्टस्य तनूजन्मापि प्रख्यातपाण्डित्य आसीद्यतः क्षेमेन्द्रेण सुवृत्त