________________
भूमिका । धर्मकीर्तेर्नाम लक्षणं वा न स्वकीये ग्रन्थे धृतम् तथापि श्लोकवार्तिके प्रत्य. क्षसूत्रे 'लक्षणं यच्च यैरुक्तम्' इति न्यायरत्नाकरस्य सुचरितमिश्रव्याख्या. याश्च दर्शनेन अत्र यैरित्यनेन धर्मकीर्तिरेवाभिमत इत्यवगम्यते। कुमारिलभट्टपादाः वाक्यपदीयकारमतं स्फुदं निराकुर्वन्तस्ततोर्वाचीनाः ७०५ ई० वर्षादारभ्य ७५० ई० वर्षपर्यन्तं स्थितवतो बौद्धाचार्यशान्तरक्षितात् पूर्वभा. विनो यतस्तेन स्वकीये तत्त्वसंग्रहे कुमारिलमतं निराकृतम् ।।
कुमारिलभट्टपादानां च त्रयः शिष्याः प्रभाकरमण्डनभट्टोम्बेकाख्या आसन् इति प्रसिद्धिः 'ननु स्मरणानुभवयोविवेकमप्रतिपद्यमानः प्रवर्तत इत्युक्तं श्रुत मिदं यदत्र भवद्भिः धर्मकोतिगृहादाहृतं दृश्यविकल्पार्थीवेकीकृत्य प्रवर्तते इति किंच चौर्यमपीदं न कथंचन स्वार्थ पुष्णाति' इति प्रन्थेन प्रभाकरमुपहसन्तो न्यायमजरीकाराः धर्मकीते : परवर्ती प्रभाकर इत्यभिप्रयन्ति। तत्र लोकइत्यादि भाष्यं यत्नगौरवं प्रसज्येतेत्यन्तमथशब्ददूषणार्थानौचिन्यानुभाषणपरमिति वार्तिककारेण व्याख्यातं तत्तु मन्दप्रयोजनमिति मत्वा टीकाकारः प्रयोजनं दर्शयति लोक इत्यादि भाष्यस्येत्यादिना' इति ऋजुविमलादर्शनात् तत्त्वसंग्रहका कुमारिलमतं खण्डयतापि प्रभाकर मतमखण्डयता तट्टीकाकृता शान्तरक्षितशिष्येण कालशीलेन ७२५-७८६ ई० वर्षेषु स्थितिमता प्रभाकर मतमपि खण्डयता कुमारिलभट्टपादाननन्तरं प्रभाकरमिश्राणां स्थितिरिति ६७०-७३० पर्यन्तमवस्थान- . समयः । वृहत्यां प्रभाकरमिरैः 'अविवेकः परमापदां पदमिति भारविपद्यम 'ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्' इति वाक्यपदीयं चोद्धृतम् ।
भट्टोम्बे कश्च श्लोकवार्तिकस्य व्याख्याता "उक्तं च भट्टोम्बेकेन-'प्रन्थारम्भेऽभिमतदेवतानमःकारं करोति वार्तिककार' इति सिद्धान्तचन्द्रिकादर्शनादवगम्यते। भावनाविवेक यापि अयं व्याख्याता । अमुमेव भवभूतिपदेन व्यपदि. शन्ति अतएव मालतीमाधवस्य प्रत्यकं भट्टकुमारिलशिष्यभवभूतिकृते इति भण्डारकररोपलब्धपुस्तकेऽस्तीति केचित् । तन्न क्षोदक्षमं यतो भवभूतिः स्वान्थे ज्ञानानिधिं स्वगुरुत्वेन स्तौति न कुमारिलम् । किंच स्वकीयपाण्डित्यपरिचायके'यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च'इति मा. १ अं. ६ श्लोके स्वस्य मीमांसकत्वं न ख्यापयति अतो न भवभूतिरेव भट्टोम्बेकः किन्त्वन्य एव ।
मण्डनमिश्राश्च विधिविवेके 'अभिधां भावनामाहुरन्यामेव लिमदय' इति