________________
भूमिका । तिलके प्रशंसितो ध्वन्यालोकलोचने चोपश्लोकितः ।
अयं च काव्यप्रकाशव्याख्याकर्तुर्भारद्वाजपुत्राजयन्तात् वामनाचार्यकृत. टीकानिनिष्टनाम्नो भिन्नः यतस्तत्कृतकाव्यप्रकाशटीकायामन्ते १३५० संवत्सरे इति कालो गुर्जरराजामात्यत्वं च लिखितमिति । संस्कारकौस्तुभोल्लिखितजयन्तस्वामिनोऽयं भिन्नो न वेति तु सन्दिग्धम् । ___ अत्रैव प्रमाणप्रकरणे २१७ पृष्ठे "प्रकटरसानुगुणविकटाक्षररचनाचमस्कारितसकलकविकुला बाणस्य वाच" इति लेखाद् बाणभट्टादनन्तरकालि. कोऽयमित्यवगम्यते । बाणभट्टश्च हर्षदेवसमय आसीदिति ! तत्कृतहर्षचरिते स्पष्टम् । राजतरङ्गिणीपर्यालोचनया मुक्तापीडहर्षदेवयोः स्थितिका. लस्य भूयान्विप्रकर्षः प्रतीयते स च राजभेदात्समाधेयः।।
तत्त्वचिन्तामणेरुपमानखण्डे (सोसाइटीकलकत्तामुद्रितपुस्तकस्य ६१ पृष्ठे) "तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं साहश्यज्ञानमुपमानप्रमा. णमिति जरनैयायिका जयन्तप्रभृतयः” इति ग्रन्थेन श्रीगङ्गेशोपाध्यायैरयं जरनैयायिकपदेन व्यपदिष्टः। . अस्मिन्प्रन्थे २८५ पृष्ठे 'परिहृतमाचार्य: जातं च संबद्धं चेत्येकः काल इति वदद्भिः' इति लेखस्य न्यायवार्तिकतात्पर्यटीकायां नचैकदेशोपलब्धिरवयविस. द्भावादिति सूत्रे दर्शनात् आचार्यवाचस्पतिमिश्रादयं परकालवर्तीति प्रतीयते ।
श्रीजयन्तभट्टेनन्यायकालिका नामासंक्षेपेण न्यायपदार्थनिरूपणपर एकोऽप्यपरो ग्रन्थः प्रणीतः स च काशीसरस्वतीभवनान्मुद्रितः सांप्रतमुपलभ्यते। 'अयं च गौडब्राह्मणः' इति पूर्वोक्तकादम्बरीसारपद्मादवगम्यते ।
___ न्यायमञ्जरीप्रतिपाद्या विषया:न्यायमञ्जर्या प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-वयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानाख्यानि षोडशप्रकरणानि सन्ति तेषां विषयाश्च तत्तन्नाम्नैव व्याख्याताः ।
एवमत्र द्वादशाह्निकानि सन्ति-तत्र
१ प्रथमाह्निके शास्त्रारम्भं समर्थ्य पदार्थानुद्दिश्य पराभिहितप्रमाणलक्ष. णानि निरस्य स्वयं प्रमाणलक्षणमभिधाय प्रमाणान्तरनिराकरण पुरस्सरं