________________
७६
न्यायमञ्जर्सा
[दशमम् सरणीयम् । उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्च उदकमुपलभ्यते यथा ह्रदादिषु, क्वचिदसच्च भास्करकरनिकरप्रतिफलिततरलितासु मरुस्थलीषु। तदेवमुपलब्धेरव्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः 'किमिदं
सदुपलभ्यते किमसत्' इति । अनुपलब्ध्यव्यवस्थातश्च भवति संशयः, किञ्चिद5 सदेव नोपलभ्यते नभःकुसुमादि, किञ्चित् सदपि नोपलभ्यते मृदन्तरितशङकु
मूलकादि तदन्यत्रानुपलभ्यमाने संशेते पुमान् ‘किमिदमसदेव नोपलभ्यते उत सत्' इति । अव्यवस्थाशब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पुनरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुप
लब्ध्यदर्शनमात्रोपपत्तेः संशयो वर्ण्यते । न चैवं सति सर्वत्रानाश्वास इति in शङ्कनीयम्, यथानुभवं संशयाभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहण
तत्स्मरणादिकारणसान्निध्यासम्भवादिति । अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम् ।
ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्, नैतत्, पूर्वनिर्दिष्टस्योर्ध्वत्वाधर्मस्य ज्ञेयस्थत्वाद् उपलब्ध्यनुपलब्ध्योश्च 15 ज्ञातृस्थत्वात् । अत एव च मानसमिमं संशयमाचक्षते न बाह्यर्मिसम्बद्ध
साधारणोलतादिधर्माधिगमाधीनसंशयवद् बाह्य न्द्रियजम् । ननु चोपलब्धित्व
र्थमुपलभमानस्यावगतविशेषस्य न संशय इति तदर्थमुपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि द्रुततरं गच्छतो विप्रतिपत्तिशब्दार्थोपलम्भे उपलब्ध्यनुपलब्ध्योश्चाव्यवस्थाने न दृष्टः संशय इति तदर्थं विशेषापेक्ष इति पदम् । ननूपलब्ध्यव्यवस्थातश्चेत् संशयस्तदानीं सर्वत्र संशयप्रसङ्ग इत्याशङ क्यातिप्रसङ्गं निराकर्तुमाह अव्यवस्थापदेनात्र पूर्वमिति । पूर्व सदाश्रिता विशेषा अर्थक्रियासमर्थत्वादयोऽसदाश्रिताश्च तद्विपरोता उपलब्धाः पुनर्यदा सदश्रितान् अर्थक्रियासमर्थत्वादोन् विशेषान् नोपलभते तदैव संशयो न सर्वदेति तात्पर्यम् । एतदेव च न चैवं सति सर्वत्रानाश्वास इति इत्यादिनाह । अत्रापि पदत्रयेणेति । नोपलब्धिमात्रं संशयजनकमिति । तदर्थमुपलब्ध्युपपत्तेरिति । उपलब्ध्युपलम्भादित्युक्तेऽधिगतविशेषस्यापि संशयप्रसङ्ग इत्यतस्तद्व्यावृत्तये उपलब्ध्यनुपलब्ध्यव्यवस्थात इति तथापि कुतश्चिद् विक्षेपादनथित्वाद्वा विशेषस्मृत्यभावे न संशय इति तदर्थं विशेषापेक्ष इति पदम् । एवमनुपलब्धावपि पदत्रययोजना कार्या ।