________________
आह्निकम् ]
संशयप्रकरणम्
मनुपलब्धित्वं वात्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेष: ? सत्यमेवम्, किन्तु समानधर्मोऽप्युपलब्धित्वादिको यदाश्रितो तद्धि बोद्धरिवर्तते । अतो विशेषात् पृथगेव कथ्यते यथा ह्यसाधारणता
समाश्रयः ।
एवम्प्रकारमेव च विशेषमाश्रित्य किञ्चित् पञ्चविधत्वं विपञ्च्यते । परमार्थतस्तु सर्वत्रानुगतसम्बन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वात् संशयस्य । विशेषाणाञ्च येन सह पूर्वं दर्शनमभूत् तस्मिन्ननुपलभ्यमाने स्मरणासम्भवात् । अतस्तस्यानेकविशेषानुगामित्वात् समानत्वात् समानत्वमपरिहार्यम् । अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामान्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः । फलवद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः ॥ अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः । वहति व्यवहारवत्तनीमिति पूर्वञ्च विचारितं बुधैः ॥
७७
प्रयोजन परीक्षणम्
5
10
15
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
'यम्' इत्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्टव्या । अर्थोऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात् । अधिकारोऽर्थस्य व्यवसायः । यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत् प्रयोजनमिति ।. तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च । तत् साधनं गौणम् । सुखसाधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति तदा तदवाप्त्युपाये गौणता द्रष्टव्या ।
20
तच्च प्रयोजनं देशकालपुरुषदशा भेदादव्यवस्थितम् । तद् यथा ग्रीष्मे मरुस्थले निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य 25 तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत् कम्प