________________
७८
न्यायमञ्ज
[दशमम् कारिणि दारुणसमीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय जायते । तस्मादनियत एवायं सुखदुःखसाधनभावो भावानाम् । यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्वलिङ्गावधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः ।
ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः । सत्त्वे कर्णनासादिवन्न तदर्था प्रवृत्तिः, असत्त्वे तु खपुष्पादिवन्नतराम् । नैष दोषः, ईप्साजिहासाविषयीकृतस्य प्रवर्तकत्वात्, न हि तत् खपुष्पादिवदसाध्यम्, नापि शिरःपाण्यादिवत् सिद्धमेव; अपि तु साध्यत्वेन बुद्ध्युपारूढं तत् प्रवर्तकमिति युक्तम्, तदेव च वाक्यार्थ इति पूर्वमुक्तम् ।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मनिना। भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः ॥ प्रयोजनमतोऽखिलैविधिवचोभिरादिश्यते प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः । क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते । वैतण्डिकः प्रयतते निजपक्षसिद्धयै तां चैष वेद परपक्षनिषेधलभ्याम् । तस्मादियं स्वमतसाधनवर्जितापि
युक्ता प्रयोजनवती भवितुं वितण्डा । 20 दृष्टान्तपरीक्षणम्
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥
लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तप्रस्तावलक्षणाद् वेदितव्यौ, न तु मूर्खपण्डितौ प्रकृतासङ्गतेः, तयोश्च सङ्गत्यभावात् । तयोर्यस्मिन्नर्थे भाव
स्वभावेऽभावात्मके वा बुद्धिसाम्यम्, प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधन25 धर्माधिकरणत्वे, साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः
स दृष्टान्तः । तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा लक्ष्यमाणान्मन्तव्यम् ।