SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] संशयप्रकरणम् यथा चानुमानलक्षणे 'तत्पूर्वकम्' इति प्रतिबन्धग्रहणोपायमानं प्रतिपादितं तत् स्वरूपन्त्ववयवलक्षणे निर्णीतम् ‘उदाहरणसाधर्म्यात् साध्यसाधनं हेतुस्तथा वैधात्' इति, एवमिह वादिप्रतिवादिप्रसिद्धिमानं दृष्टान्तस्य दर्शितम्, रूपन्तु तस्य द्विविधमपि तत्रैव वक्ष्यते, 'साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्, तद्विपर्ययाद् वा विपरीतम्' इति अनित्यः शब्दः कृतकत्वाद् यत् कृतकं तदनित्यं 5 दृष्टं यथा घट इति साधर्म्यदृष्टान्तः । यत् पुनरनित्यं न भवति तत् कृतकमपि न भवत्येव यथाकाश इति वैधर्म्यदृष्टान्तः । यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति । आभासभेदविभवात् कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे । आभासता वचनदोषकृतापि काचिदस्तीति सावयवलक्षण एव वाच्या ॥ 10 द्विविधोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः । स हि निश्चल: फलनिधेरनुमानमहातरोः स्कन्धः । सिद्धान्तपरीक्षणम् तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ __ तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते । अधिकरणमाश्रयः । 15 तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमूल इत्यर्थः । अभ्युपगमः स्वीकारः, तस्य संस्थितिरित्थम्भावव्यवस्था धर्मनियमः । इदमिति सामान्यनिर्देश इत्थमिति विशेषः । एवञ्च तन्त्राधिकरणाभ्युपगमसंस्थितिः प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति। 20 अन्ये तु व्याचक्षते, तन्त्रम् इतरेतरसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिक्रियत इत्यधिकरणं पक्ष उच्यते । अभ्युपगमो यथोक्त एव। संस्थितिशब्दः प्रत्येकमभिसम्बध्यते । तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन सिद्धान्तलक्षणे इत्थम्भावव्यवस्थेति । अस्य विवरणं धर्मनियम इति । शब्दस्य सामान्येन सिद्धस्येत्थम्भावव्यवस्था अनित्य एव शब्द इत्यनित्यत्वाख्यधर्मनियमः। .25 इतरेतरसम्बद्धस्यार्थसमूहस्येति । नासम्बद्धस्य दशदाडिमादिवत् ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy