________________
न्यायमञ्जल्
[ दशमम् तन्त्रनिर्देशसाम्यात् सर्वतन्त्रसिद्धान्तयोः सूचनम् इतराभ्यां पदाभ्यामुत्तरयोरधिकरणाभ्युपगमसिद्धान्तयोरिति । एतत्त्वपव्याख्यानम्, न ह्येवं सिद्धान्तचतुष्टयानुगतं किञ्चित् सामान्यलक्षणमुक्तं भवति । न चेदं विभागार्थं विशेषलक्षणार्थ वा सूत्रम् । तत् प्रतिपादनस्योत्तरसूत्रः करिष्यमाणत्वात्, उक्तस्य च पुनर्वचने प्रयोजनाभावात् । अतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः । तस्य स्वकण्ठेन विभागमाह, स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।।
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तः । तत्र,
सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥
अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति । नन्वत्रापि विवदन्ते ब्रह्मवादिनां हि सर्वैवेयमविद्या, अविद्या च कथं प्रमाणमिति । न व्यवहारा
वस्थायां तैरपि तत्प्रामाण्याभ्युपगमात् । संख्यालक्षणविषयविप्रतिपत्तितिस्तु 15 प्रतिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः ।
___समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथास्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मितानि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च
सांख्यादिशास्त्रे तथा नाभ्युपगम्यन्त इति । यथा वा गुणत्रयात्मिकायाः प्रकृते20 महदहङ्कारादिक्रमेण भूतसर्ग इति साङ्ख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि
पातञ्जले योगशास्त्रे सिद्ध एव, परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । नन्वस्य कथं प्रमाणमूलता ? स्थाने प्रश्नः, सत्यमेतत्, आस्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव, साङ्ख्यसिद्धान्तस्तु प्रमाणमूलत्वा
भावेऽपि परतन्त्रत्वख्यापनायोदाहृतस्तदभिप्रायेण मूलता वक्तव्येति । . 25. ब्रह्मवादिनां हि सर्वैवेयमविद्येति । ग्राह्यस्य प्रपञ्चस्यासत्यत्वात् । तद्ग्राहकस्य
ज्ञानस्याविद्यात्वम् । सङ्ख्या-लक्षण-विषयविप्रतिपत्तिस्त्विति सङ्ख्याविप्रतिपत्तिः, 'वे एव