________________
आह्निकम् ]
संशयप्रकरणम् __ यसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥
प्रक्रियते इति प्रकरणं पक्ष उच्यते । यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिर्भवति सोऽधिकरणसिद्धान्तः, तदधिकरणानामर्थान्तराणां सिद्धेः ।
कः पुनर्यसिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किञ्चातः, पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते न पक्षण, 5 हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतुर्हेत्वाश्रयः इति । ___ उच्यते, उभयथाप्यदोषः, हेतुरपि क्वचित् पक्षीभवति, पक्षो हि हेतुर्भवत्येव तत्र तावदाञ्जस्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाव- 10 मृष्यते यत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ।
कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ? उच्यते, हेतुरपि तदन्यतराभिन्न इव साध्यमानत्वात् पक्षीभवन् न्यायान्तराश्रयतां प्रतिपत्स्यते, अपि वा पक्ष एव सर्वनाम्नावमृष्यमाणो भवत्वधिकरणसिद्धान्तः स च स्पष्ट एव न्यायस्याश्रयः । स च सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां 15 भजते । तस्योदाहरणम् इन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्रेन्द्रियव्यतिरिक्त ज्ञातरि सिद्धयति तदनुषङ्गीण्यर्थान्तराण्यपि सिध्यन्ति; नानेन्द्रियाणि नियतविषयाणि, गुणव्यतिरिक्तं द्रव्यमित्येवमादीनि ।
20
प्रमाणे' इत्यादिका। विप्रतिपत्तिः 'प्रत्यक्ष कल्पनापोढम्' इत्यादिका। विषयविप्रतिपत्तिः 'स्वलक्षणविषयं प्रत्यक्षम्' इत्यादिका।।
इन्द्रियव्यतिरिक्तो ज्ञातेति । एकार्थग्रहणादेकार्थप्रसाधकात् प्रतिसन्धानलक्षणाद् हेतोरित्यर्थः । यदि हि एकमिन्द्रियं स्यात् तदा यमहमद्राक्षं तं स्पृशामीति तत्कृतमेव प्रतिसन्धानं भवेत् । यदि वा अनियतविषयं स्यात् तदाप्यनियतविषयत्वादेकेनैवेन्द्रियेण प्रतिसन्धानं सिद्धयेद् विनाप्येकेनानियतविषयेण ज्ञात्रा। यदि गुणव्यतिरिक्तं द्रव्यं न स्यात् तदा विषयशून्यत्वात् प्रतिसन्धानस्य अप्रमाणं तत् स्यादेकार्थसिद्धौ ।
न्या० म० ११