________________
८२
न्यायमञ्जर्य्यां अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥
15
अत्रापरीक्षिताभ्युपगमादिति यथाश्रुतपञ्चमीनिर्देशमनुरुध्यमानाः प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति च सामान्यलक्षणमनुसरन्तः केचिदेवं व्याचक्षते, धर्मिणः शब्दादेर्नित्यत्वविचारचर्चायाम् अपरीक्षितस्यैवा5 काशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाभ्युपगमात् किं सिध्यति ? उच्यते, तद्विशेषपरीक्षणं तद्गतनित्यानित्यत्वपरीक्षणं हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते । यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दो धर्मत्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति । एवमपि कृते यदि पुरो धर्मिणं विकल्पयेत् कीदृशस्य सतः शब्दस्य 10 भवता नित्यत्वं साध्यते द्रव्यस्य गुणस्य वेति, स एवं विकल्पयन्नर्थान्तरगमनात् तावत् पराजित एव भवति । जितमप्येनं पुनर्जेतुं स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्धयवज्ञया च वादी ब्रवीति 'अस्तु द्रव्यं शब्द:' इति ।
[ दशमम्
अत्रारुचिप्रदर्शनम्
एतत्तु व्याख्यानं न बुद्धयामहे । एवं व्याचक्षाणानामेषामभ्युपगमसिद्धान्त इति को न व्यवस्थित इति । यदि तावदनित्यः शब्द इति द्रव्यनु त्वगुणत्वादिविशेषरहितशब्दाख्यधर्मनिर्देशो यः प्रथममुपात्तः स एवाभ्युपगमसिद्धान्तस्तत्राभ्युपगमार्थः कीदृशः कश्च प्रतितन्त्रसिद्धान्तादस्य विशेष: ? अथास्तु द्रव्यं शब्दार्थ इति स्वबुद्ध्यतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशोऽभ्युपगमसिद्धान्तः, तर्हि तत्र सूत्रे ऽपरीक्षिताभ्युप20 गमादिति न योजितम्, अन्यत्रैव तैः सूत्रार्थो नीत इति ।
स्वमते सूत्रव्याख्यानम्
तस्मादेवं व्याख्यायते, अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन
"
अभ्युपगमार्थः कीदृश इति । प्रमाणेनैव स्वार्थस्य साधयितुमभिप्रेतत्वादिति । अन्यत्रैव तैः सूत्रार्थोनीत इति । आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्याभ्युपगमा25 दित्यत्रार्थे तैः सूत्रार्थी योजितः ।