________________
आह्निकम् ]
संशयप्रकरणम् क्रियमाणोऽभ्युपगमसिद्धान्तः । अस्तु द्रव्यं शब्द इति प्रमाणमूलाभ्युपगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम् । द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु तथापि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति । कथं तर्हि पञ्चमी ? किं पञ्चम्या ? वस्तु तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते । 5 किमर्थं पुनरयमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उतरं पञ्चम्याभिधीयते, यस्मादपरोक्षिताभ्युपगमात् तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मादपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति । न तु तद्विशेषपरीक्षणमेव सामानाधिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यम्, परीक्षणस्य सिद्धान्ताश्रितत्वात् । तस्माद् विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना '10 क्रियमाणोऽभ्युपगमसिद्धान्त इति सूत्रार्थः । इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः।
इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम् । प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित् ।।
सव
अवयवपरोक्षा अवयवस्य परार्थानुमानापरपर्यायस्य स्वरूपे संशयप्रदर्शनम् ... इह हि स्वयमवगतमर्थमनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तावान् प्रयोक्तव्यः । तमेव च परार्थमनुमानमाचक्षते नीतिविदः ।
ननु नैव परार्थमनुमानं नाम किञ्चिदस्ति, वक्त्रपेक्षया श्रोत्रपेक्षया 20 वा तदनुपपत्तेः ।
वक्त्रान्वमायि स ह्यों नेदानीमनुमीयते । श्रोतुः स्वार्थानुमानं तद् वाक्यावगतिहेतुकम् ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाग्निमधिगच्छति ।। तथा तदीयाद् वचनादिति कस्य परार्थता ॥
25