________________
न्यायमञ्ज
[ दशमम् आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः ।
कश्चिच्च तत्प्रत्ययोपायन्यायमार्गोपदेशकः ॥ इति । सत्यम्, न परमार्थतः परार्थमनुमानमुपपद्यते, किन्तु द्विविधः प्रतिपत्ता स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिकः, तद्विपरीतश्च । यत्र स्वयमवधृतप्रतिबन्ध 5 प्रति नोपदिश्यते एवमनुमानं स्वत एव तस्य प्रतीत्युत्पत्तेः, अनवधारितव्याप्ति
कस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते । तथा हि,
वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते । परो मद्वचनादेव तमर्थं बुद्ध्यतामिति ।। किन्त्वेनमनुमानेन बोधयामीति मन्यते । सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥ किन्तु व्याप्तिमतो लिङ्गात् स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते ॥
अतश्च श्रोतुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन् 15 परार्थमनुमानं प्रयुङ्क्ते इत्युच्यते ।
न चानुवादमात्रं तद् वक्तुरित्युपपद्यते ।
यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रम्, स्वागमापेक्षया त्वनुवादत्वेनेदानीमाप्तवचनमनुवादरूपं किंचिद् भवेत् सर्वस्य स्वोपलब्धिपूर्वकत्वादिति । 20 तस्मात् परार्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्ते । अवयवविभागः
प्रतिज्ञाहेतूवाहरणोपनयनिगमनान्यवयवाः ॥ एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते विभागञ्च प्रमाणानामिव प्रत्यक्षानुमानोपमानशब्दाः, साधनीयार्थप्रतिपत्तिपर्यन्तवचन25 कलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तृवचननिर्गतानां ... निसर्गभगुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां द्रुमाणामिव पारमार्थिकः