________________
आह्निकम् ]
संशयप्रकरणम् समूहो न समस्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि सम्भवन्त्येव । ___न च पदानामेवानुमानवाक्यावयवत्वम् अपि तु खण्डवाक्यानाम् एकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनन्त्वेकमपि पदं 5 क्वचिद् भवति कृतकत्वादिति । तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति । उदाहरणवचनमपि पटवदित्येवमालस्यादेव प्रयुज्यते । तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत् कृतकं तदनित्यं दृष्टं यथा घट इति । तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् । विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा न 10 न्यूनातिरिक्ता इति ।
अवयवसंख्यायां विप्रतिपत्तिप्रदर्शनम्
नन्वत्र विवदन्ते केचित्, न्यूनतामवयवानामाचक्षते त्र्यवयवं द्वयवयवं वा साधनवाक्यं वदन्तः । अन्ये तु जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति पञ्चभिः सह प्रतिज्ञादीन् दशावयवानाहः । उच्यते, न्यूनता यथावसरं 15 प्रतिसमाधास्यते, आधिक्यमप्ययुक्तं जिज्ञासादीनामशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् । तथा ह्यप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा, सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मो न वाक्यावयवः । अर्थक्रियासाधनेऽर्थे विमर्शः संशयः किमेवमयम् अथवैवमिति ज्ञानात्मकत्वान्न वाक्यावयवः । प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्य- 20 प्राप्तिः, सापि तथैव न वाक्यावयवं स्पृशेत् । तत्त्वावधारणफलात्मकं प्रयोजनमपि न वाक्यैकदेशः । संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्वभावत्वेऽपि न साधनवाक्यावयवः किन्तु वाक्यान्तरमेवेति न साधनवाक्यस्यावयवत्वं प्रतिपद्यते । तदिमे संशयादयः प्रवृत्तिहेतवो भवन्ति न वाक्यावयवा . इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति । तेषाम्
25