________________
न्यायमञ्ज
[ दशमम्
साध्यनिर्देशः प्रतिज्ञा ॥ प्रतिज्ञेति लक्ष्यनिर्देशः, साध्यनिर्देश इति लक्षणम् । शुद्धस्य धर्मिणो धर्मस्य वा द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य साध्यत्वानुपपत्तेः
धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत् । तस्य निर्देशः परिग्रह5 वचनं प्रतिज्ञेति । ननु साधारणत्वाद् वाक्यानां कि साध्यनिर्देश एव प्रति
ज्ञेत्यवधारणमुत प्रतिज्ञैव साध्यनिर्देश इति। यदि साध्यनिर्देश एव प्रतिज्ञेत्यवधार्यते तदा यत एवकारकरणं ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते साध्यनिर्देशं मा त्याक्षीदिति । साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि
भवेदित्यतिव्यापकं लक्षणम् । अथ प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते ततः 10 साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति । प्रतिज्ञा त्वनियमिते साध्य
निर्देशमपहायापि भवेदिति साध्यनिर्देशन प्रतिज्ञाया अव्याप्तत्वादव्यापकं लक्षणमिति । तदेतदयुक्तम् । न हि सर्वं वाक्यं सावधारणं भवति यथैष पन्थाः स्रुघ्नं गच्छतीति । न हि तत्रैष एवेति, स्रुघ्नमेवेति वा नियन्तुं शक्यत इति ।
अथाप्यवधारणमवश्याश्रयणीयं तद् भवतु साध्यनिर्देश एव प्रतिज्ञेति । न 15 चातिव्याप्तिः प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात्, अनियमितोऽप्य
अवयवलक्षणे साध्यनिर्देशस्त्वनियमित इति । तमपहायापि भवेदित्यतिव्यापकं लक्षणमिति । एवं हि सति यः साध्यनिर्देशः सा प्रतिज्ञेति न स्यात्, अप्रतिज्ञारूपस्यापि साध्यनिर्देशस्य सम्भवात् । यथैष पन्थाः स्त्र नं गच्छतीति । नन्वत्रापि वाक्ये
गच्छत्येवेति अवधारणमस्त्येव । नैतदेवम् । अवधारणं हि विशेषणेन समानविषयम् । 20 न च ‘एष पन्थाः स्रुघ्नं गच्छति' इति अत्र विशेषणं सफलम् । तस्य हीष्टानिष्टसंदेहेऽनि
ष्टव्यवच्छेदः फलम् । यथा च विशेषणस्येष्टानिष्टप्रसत्तौ 'नीलमेवोत्पलं नानीलम्' इत्यनिष्टव्यवच्छेदः प्रयोजनं तथावधारणस्य । न चोत्पलस्येव नीलानीलत्वं गमनस्य द्वैरूप्यमस्ति येन गच्छत्येवेत्यनेन रूपान्तरस्य व्यवछेदः क्रियेत । न हि तत्रैष एवेति । एष
एवेति नियमो मार्गान्तराणामपि स्रुघ्नगामिनां सम्भवाद् वक्तुं न पार्यते । स्रघ्नमेवेति 25 वेति । न चासौ नियमेन स्रुघ्नमेव गच्छति, स्रुघ्नात् परतोऽवस्थितानामपि नगरान्तर
ग्रामान्तराणां तेन मार्गेण प्राप्यत्वात् ।