________________
10
आह्निकम् ]
संशयप्रकरणम् सावन्यत्र न दृश्यत एवेति । तस्मात् साध्यनिर्देश एव प्रतिज्ञेति स्थितम्, तद् यथा अनित्यः शब्द इति ।।
नन्वत्रापि किमनित्य एवेत्यवधारणमुत शब्द एवानित्य इति । तत्र अनित्य एव शब्द इत्युक्ते तद्गतधर्मान्तरतिरस्कारात् कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः । शब्द एवानित्य इति त्ववधार्यमाणे घटादावनित्यत्त्व- 5 प्रतिषेधादन्वयशून्यता हेतोः स्यादिति । नैष दोषः, निरवधारणस्यापि वचनप्रयोगस्य दर्शितत्वाद् अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्यशेषधर्मान्तरनिषेधस्तत्र विधीयते; किन्तु तद्विरुद्धनित्यत्वमात्रनिषेध एव अनित्य एव शब्दो न नित्य इत्यर्थः । तदुक्तम्,
नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनः । इति । तस्मान्न हेतोरसिद्धत्वम् ।
ननु साधनवाक्ये प्रतिज्ञावचनमसमञ्जसमसाधनाङ्गवचनत्वात्, हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धस्ते एव वक्तव्ये । न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम्, आख्याने वा मिमात्रमाख्यायताम्, स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु सिषाधयिषितहुतवहादिधर्मविशेष- 15 रूषितवपुषः । एवमभ्युपगमेऽनुमानवैफल्यप्रसङ्गात् । अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपमिनिर्देशकरणम् ? अपि च विवादादेव प्रतिज्ञार्थो लभ्यत इति किं स्वकण्ठोक्तेन तेन प्रयोजनम् ? उच्यते, स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्रतिपत्तौ प्रथममुपलब्धो धर्मी तावदाख्येय एव अनुद्देश्यमाने हि धर्मिणि निरधिकरणो हेतुः क्व साध्यं साधयेत् ? धर्म्यनव- 20 च्छिन्ने च धर्ममात्रेऽनुमानमनर्थकमविवादसिद्धत्वात् । अस्ति हि यत्र क्वचिदनित्यत्वमित्याश्रयासिद्धश्च मिनिर्देशाद् विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः । यद्यपि च मिमात्रदर्शनमेव प्रथममभूत् तथापि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः । शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदमन्धपदमिव साधनं भवेत् ।
नियमस्तद्विपक्षादिति । तस्यानित्यत्वस्य विपक्षो नित्यत्वम्, ततो नियमः क्रियते अनित्य एवेत्यनेन । नाविरोधिनो गुणत्वादेः ।
25