________________
न्यायमञ्जऱ्यां
[ दशमम् अथ व्याप्तिप्रदर्शननिपुणेन यत् कृतकं तदनित्यं दृष्टमिति दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंस्यति स उपप्लव इति । तत्रापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाङ्क्षासमुत्पादनाय साध्यं निर्देष्टव्यम् । न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षति कश्चिदितिसाधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव ननमनित्यः शब्द इति प्रतिज्ञावचनं प्रयोक्तव्यम् । यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते, तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः । यतो विरुद्धो वादो विवादः, एक आह नित्यः शब्दः, इतरस्त्वनित्य इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो
विवादः प्रतिज्ञैव । स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तरे वेति 10 किमनेन विशेषेण । तस्मादपरिहार्य प्रतिज्ञावचनमिति सिद्धम् । प्रतिजैव च पक्ष इत्युच्यते ।
तदेवंविधे पक्षलक्षणे प्रदर्शिते बलात् पक्षाभासाः प्रतिक्षिप्ता भवन्ति । तद् यथा अनुष्णोऽग्निरिति प्रत्यक्षविरुद्धः पक्षः । न रूपग्राहि चक्षुरित्यनुमानविरुद्धः । शब्दविरुद्धस्तु बहुशाखः, ब्राह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री मे वन्ध्या, पिता ब्रह्मचारीति धर्ममिपदयोरेव विप्रतिषेधात् स्वचनविरुद्धः । न चन्द्रः शशीति लोकप्रसिद्धिविरुद्धः । उपमानविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति । अप्रसिद्धविशेषणो नभःकुसुमकृतावतंसश्चैत्र इति, अप्रसिद्धविशेष्यः सुगन्धि गगनकमलमिति । अप्रसिद्धोभयः खपुष्पकृतशेखरो
वन्ध्यासुत इति । यत्रापि विशेषणविशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव 20 तन्निर्देशोऽपि पक्षाभास एव, शीतं तुहिनमुष्णोऽग्निरिति, साध्यत्वाभावेनानु
मानप्रयोगावसरविरहाद् इतीयमेव च सा सिद्धसाध्यतोच्यत इति । ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव, प्रपञ्चमात्रन्तु पक्षदृष्टान्तदोष
वर्णनम् । दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद् हीयत 25 इति सर्वे च ते हेतुदोषा एव ।।
अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥