________________
आह्निकम् ]
संशयप्रकरणम्
कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्र प्रतिष्ठितः । बाधोऽनुमानरूपस्य स्ववाक्यादिकृतो यथा ।।
८९
एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुखमेव लक्ष्यते इत्यर्थात्मक हेतुलक्षणं तावदुच्यते,
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति ॥
नन्वर्थात्मको हेतुरनुमानं तच्च लक्षितमेव पूर्वं तत्पूर्वकं त्रिविधमनुमानमिति । सत्यम्, तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु न प्रतिबन्धस्वरूपमपि प्रतिपाद्यते । तत्र अर्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्योदाहरणसाधर्म्ये साध्यसाधनं हेतुरिति सूत्रं पठन्ति । व्याचक्षते च साधर्म्यं हेतुरित्युच्यमाने 10 गन्धवत्त्वादेरसाधारणहेतोः साध्यर्धामिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसम्भवाद् विरुद्धस्य पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वाद् हेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम् । उदाह्रियतेऽस्मिन् साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः, तेन साधर्म्यम् । कस्येति ? प्रकृतत्वात् प्रत्यासत्तेश्च साध्यस्य धर्मिण इत्यवगम्यते । उदाहरणसाधर्म्यं साध्यदृष्टान्तधर्मसाधारणो धर्मो हेतुरिति नासाधारणादौ तथात्वप्रसक्तिरिति । एवमपि प्रमेयत्वादेरनैकान्तिक हेतोः, तथा भागासिद्धस्यानित्यत्वसिद्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः, प्रकरणसमकालात्ययापदिष्टयोश्चोदाहरणसाधर्म्यसम्भवाद् हेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्यसाधनग्रहणम् । साध्यदृष्टान्तधर्मिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिर्भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति 20
बाधोऽनुमानसारूप्येति । सारूप्यकृत उपमानकृतः।
पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वादिति । विरुद्धस्य असति पक्षवृत्तित्वेऽसिद्धत्वं स्यान्न विरुद्धत्वमिति । तदुदाहरणसाधर्म्यं साध्यदृष्टान्तर्धामसाधारणो धर्मो हेतुरिति । ननु साधर्म्यशब्देन कथं धर्मोऽभिधीयते । समानो धर्मो यस्यासौ सधर्मा तद्भावः साधर्म्यमिति सधर्मशब्दस्य धर्मिणि प्रवृत्तिनिमित्तं धर्म एवेति स एव साधर्म्यशब्देनोच्यत इत्यदोषः ।
न्या० म० १२
5
15
25