________________
न्यायमञ्ज
[ दशमम् साध्यसाधनग्रहणम् । लिङ्गसामान्यलाभार्थ साध्यसाधनं यदुदाहरणसाधर्म्य स हेतुरिति । साध्यसाधनपदेन च प्रतिबन्धो लक्ष्यते, स च सव्यभिचारादिषु नास्तीति न ते हेतवः । प्रतिबन्धश्च पञ्चलक्षणक इत्येकैकलक्षणाभावकृतहेत्वाभासपञ्चकनिर्देशादेव सूचितवानाचार्यः ।
नन्वेवं तहि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु, तद्धि सकलहेत्वाभासव्युदाससमर्थमिति, किमुदाहरणसाधर्म्यग्रहणेन ? समानजातीयव्यवच्छेदार्थत्वात् । अहेतवो हि विजातीयास्तद्वयवच्छेदः साध्यसाधनग्रहणात् समानजातीयस्य केवलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्यग्रहणमिति ।
तत् किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः ? न, तथाविधस्य 10 हेतोरभावाद् अन्वयव्यतिरेकलक्ष्यमत्रोदाहरणसाधर्म्यम्, वैध→सम्भवे तु सति
साधर्म्यमप्यस्त्येवेति, न सावधारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति ।
ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति । उच्यते, साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामान्य15 लक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणन्त्वन्वयव्यतिरेकिणो लक्षणम्, उत्तरसूत्रं
च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः । अपि वा भवतु तत्रापि संशयव्यबच्छेदफल: पञ्चमीपाठः । कश्चिदेवमभिदधीत साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् । अपि च यत्रैव दृष्टान्तर्मिणि हेतुधर्मप्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद् भवतु संशयः किं तत्साध्याविनाभूतमिह हेतोः सत्त्वमुतान्यथेति । अस्येदमुत्तरमुच्यते, उदाहरणसाधादिति । अयमर्थो देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रतिबन्धावधारणमपि तु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च सत्युदाहरणसाधर्म्यात् साध्यसाधनमेव भवति न संशयः, संशयस्य विशेष