________________
आह्निकम्
संशयप्रकरणम् ग्रहणकारणकत्वात् । इह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ? साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्षणकप्रतिबन्धसूचनेन हेतोर्हेतुत्वसमर्थनार्थमेतत्, कस्माद्धेतुहेतुर्भवति साध्यसाधनत्वाद् गमकत्वादित्यर्थः। साध्यसाधनता चास्य पञ्चलक्षणकात् प्रतिबन्धाद् विना न निर्वहतीत्यसौ साध्यसाधनपदेन लक्ष्यते । सोऽपि च 5 प्रयोज्यप्रयोजकभावगर्भ: साधनाङ्गतामेतीति तथाविध एव सूच्यते । अत एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते । तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः 'साधर्म्य यदि हेतु: स्यान्न वाक्यांशो न पञ्चमी'इति, तदिदमनुपपन्नम्, पञ्चम्याः अर्थात्मकत्वे हेतावनुपयोगात् 10 तत्रापि वा तस्याः समर्थितत्वात्, वाक्यांशे लक्षणान्तरकरणात् । तच्चेदमिदानीमुच्यते उदाहरणसाधात् साध्यसाधनं हेतुः । यद्यपि च ज्ञानस्याप्युदाहरणसाधात् कर्मभूतात् करणात्मकत्वाद् वा भवत्यभिनिर्वृत्तिस्तथापि वाक्यावयव प्रकरणसामर्थ्याद् वचनमवसीयते ।
यदि वाक्यावयवप्रकरणमिदं किमर्थं तॉर्थव्युत्पादनम् ? उक्तमत्र 15 तदौपयिकत्वाद् इति । साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्, हेत्वाभासवचननिरसनमर्थात्मकहेतुलक्षणादेव हि सिद्धम् । न, हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मवचनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकत्वादित्येवमादि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वा अभिधातव्यम्, एवं हि तत् साध्यसाधनं भवतीति ।
. 20 व्यतिरेकहेतुलक्षणम्
तथा वैधात् ॥ उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च । एतच्च तथाशब्दोपादानसामर्थ्याद् गम्यते उदाहरणवैधात् साध्यसाधनं हेतुः । अत्राप्यर्थात्मकहेतु
सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेतीति । असति साधनधर्मस्य 25 साध्यधर्मप्रयोजकत्वे हेतुत्वाभावात् । न वाक्यांशो न पञ्चमीति । साधर्म्यप्रतिपादकं हि वचो वाक्यांशो न साधर्म्यमित्यर्थः ।