________________
न्यायमञ्ज
[दशमम् पूर्वकत्वाद् वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यत इति तल्लक्षणाय पूर्ववत् पञ्चमीपाठशून्यमेव सूत्रं वर्णयन्ति । वैधयं हेतुरित्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेर्हेतुत्वं
स्यादित्युदाहरणग्रहणम् । तथाप्यसाधारणादेरुदाहरणवैधय॑स्य हेतुता प्रसज्यत 5 इति पूर्ववत् साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहेत्वाभासव्यवच्छेदके
योजनीयम्, तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः, उदाहरणवैधर्म्यग्रहणं समानजातीयान्वयव्यतिरेकिहेतुव्यवच्छेदसिद्धये व्याख्येयम् ।
ननु च वैध→शब्दः केवलान्वयिनमेव हेतुमव्यतिरेकं व्यवच्छेत्तुमलम्, तस्य वैधर्म्यशून्यत्वात्, अन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि 10 भावात् कथमनेन व्यावर्तनम् ?
उच्यते,
वैधर्म्यशब्दोपादानात केवलान्वयिनो यथा । निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः ।। साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः ॥ वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते । पूर्वत्र कथनाद् व्ययं वैधर्म्यग्रहणं भवेत् ।। केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया । वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते । अध्याहृतैवकारं वा तद्व्युदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयताम् ॥ . .. केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते ।
तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ।। नन्वेवं तद्यनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थं स्यात्, यथेह
विशेषविधिरूपेणेति। साधर्म्यवैधाभ्यां पूर्व प्रतिपाद्य केवलवैधये॒णैव प्रतिपादनं विशेषविधिः शेषप्रतिषेधफलो वामेनाक्ष्णा पश्यतीतिवत् ।
25