________________
आह्निकम् ]
संशयप्रकरणम्
वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति । उक्तमत्र न केवलान्वयी नाम हेतुः सम्भवतीत्यलक्षणीय एवासौ, तदेवमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रम्, इदन्तु केवलव्यतिरेकि - लक्षणाय इति स्थितम् । अर्थात्मक हेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत् संशयपराकरणफलत्वेन वर्णनीयः । वचनात्मक हेतुलक्षणेऽपि तथैव सूत्रं 5 योज्यम्, यथोक्तवैधर्म्यात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः ।
केवलव्यतिरेकितो दोषप्रदर्शनम्
तदेतदाक्षिपन्ति, लक्ष्ये सति लक्षणं वक्तव्यं भवति, केवलव्यतिरेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते ? प्रतिबन्धेन हि 10 हेतोर्गमकत्वमुक्तम्, प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः, एकैक लक्षणविरहनिबन्धनाश्च पञ्च हेत्वाभासा भविष्यन्ति, तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्यस्यापि न हेतुता युक्ता । केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधहेतुसुभिक्षसम्भवाद् यद् यस्मै रोचते स तत्सर्वं साधयेत् । असाधारणस्य वा किमिति न हेतुत्वम्, व्यतिरेकवतोऽपि संशयः 'साध्याभावकृता तस्माद् व्यावृत्तिरुत वान्यथा', अन्वये हि क्वचिद् गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्थमेव सन्दिग्धव्यतिकता व्यावर्तते नान्यथेति ।
सन्दिग्धव्यतिरेके च साध्यसाधनता कथम् । लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ॥
तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रहणेनान्वयव्यतिरेकिणो लक्षणम् उदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयमपि तु सूत्रद्वयेनैतस्यैवान्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेकव्युत्पादनम् । अत एव च भाष्यकार: 'किमेतावद्धेतुलक्षणं नेत्युच्यते, तथा
अत एव च भाष्यकार इति । स हि " उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः "
15
20
25