________________
न्यायमञ्ज
दशमम् वैधात्' इत्येकवाक्यतयैव व्याख्यातवान् । उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वयव्यतिरेकिहेतोरुक्तवान् ‘उत्पत्तिधर्मकत्वात्' इति । केवलव्यतिरेकिहेतुसिद्धिः
अत्र वदन्ति यदि वयं यं कञ्चन शुष्कमेव केवलव्यतिरेकिणं हेतुमुप5 गच्छेम तत एवमन्युज्येमहि, किन्त्वन्वयव्यतिरेकवानेव हेतुः क्वचित् साध्य
विशेषे विशेषणविशेषवशात् केवलव्यतिरेकितामवलम्बत इति ब्रूमः । तद्यथा इच्छादिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात्, यत्र ह्याश्रितत्वं
नास्ति तत्र कार्यत्वमपि नास्त्येव व्योमादौ । सोऽयमन्वयव्यतिरेकवानेव 10 हेतुर्यदा परिदृश्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु
बाधकोपपत्तौ सत्यां कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति । ईदृशस्य चान्वयमलस्य तस्यां दशायां केवलव्यतिरेकिता
मुपगतस्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः । न हीदृशा हेतुना सर्वः सर्व 15 साधयितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थंस्थिते प्रसज्यते, पञ्च
लक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति ।
___ यच्च सन्दिग्धव्यतिरेकित्वमाशङ्कितं तदप्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादाश्रितत्वव्यावृत्त्या
व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानी घटादौ शरीरे वा सविशेषणकार्य20 त्वव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति न संदिग्धो
व्यतिरेकः । एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवलव्यतिरेकी हेतुरस्त्येव, लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुलक्षणार्थञ्च सूत्रम् । केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणन्त्वनुमानलक्षणात् साध्यसाधनपदाद् वा अवगन्तव्यम् । भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा
23 इति सूत्रं व्याख्याय 'तथा वैधात्' इत्यस्य सूत्रस्यावतारणाय 'किमेतावद्धतुलक्षणम्'
इत्याह । 'अनित्यः शब्दः' इति च प्रतिज्ञामुक्त्वा 'उत्पत्तिधर्मकत्वात्' इत्युभयत्र हेतुमाह।