________________
आह्निकम् ]
प्रमेयप्रकरणम् यथाकथञ्चिद् वा व्याख्यास्यामः, केवलव्यतिरेकिणन्त्वीदृशमात्मादिप्रसाधने परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः । साधोदाहरणलक्षणम्
साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ यथा 'तत्पूर्वकमनुमानम्' इत्यत्र प्रतिबन्धग्रहणोपायमानं प्रतिपादितम्, 5 इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तम् एवं 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः' इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम् । इह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र 'साध्यसाधर्म्यात्तद्धर्मभावी' इति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽ- 10 प्यर्थात्मकदृष्टान्तचिन्तनं तदौपयिकत्वाद्धेतूवत् कर्त्तव्यम् । साध्यं धर्मविशिष्टो धर्मी तेन साधर्म्य साधनधर्मो लिङ्गसामान्यं यद् उदाहरणसाधर्म्य पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम् । तस्मात् साध्यसाधाद् यस्तद्धर्मभावी तस्य साध्यस्य धर्मो नित्यत्वादिर्यस्मिन् भवति स तद्धर्मभावी, पञ्चम्या प्रयोजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मो यत्रास्ति 15 स साध्यधर्मदृष्टान्त इत्यर्थः । स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायक वचनमुदाहरणमुक्तं भवत्येव 'यद् यत् कृतकं तत्तदनित्यं दृष्टं यथा घटः' इति।
20
___ यथाकथञ्चिद् व्याख्यास्याम इति । अन्वयव्यतिरेकिणो यल्लक्षणं प्राक् प्रतिपादितम् आहोस्विद् अन्यस्यापि हेतोरन्यत् किञ्चिल्लक्षणं विद्यत इति प्रश्नभाष्यमेवं व्याख्येयमुत्तरभाष्यं तु स्पष्टमेव ।
समानो धर्मो लिङ्गसामान्यमिति । लिङ्गसामान्यधूमत्वं द्वयोः सम्भवति न धूमव्यक्तिरिति लिङ्गसामान्यग्रहणम् । दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यम- 25 विरुद्धमिति दृष्टान्त उदाहरणप्रतिपाद्यो दृष्टान्त इत्यर्थः ।