________________
10
.
न्यायमञ्जऱ्यां
[ दशमम् नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता' यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव दृष्टान्त उपदिष्टो भवेन यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति ।
अदर्शनज्ञो देवानां प्रियः ! नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः किन्तु ज्ञप्त्यभिप्रायेण, ज्ञप्तौ च धूम एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि धूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियमनाम्ना सम्बन्धेनेत्यसकृदुक्तम् ।
धूमः स्वरूपतो नाम जायतां जातवेदसः । नाग्निस्तमाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ।। प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते । यत्र तत्राग्निरित्येवं तन्निर्देशः प्रसज्यते ॥ यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् । यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ।।
भवेदेवञ्च हेतुत्वं धूमं प्रति विभावसोः । 15
न च तद् युज्यते वक्तुमनैकान्तिकदोषतः ॥
प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया । अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत्, तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् ।
तद्विपर्ययाद्वा विपरीतम् ॥ 20 दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः । तच्च यद्यपि पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्यम्, तद्विपर्ययात् साध्या
नन्वेवं यत्र हेतुकृतेति । साध्यसाधाद् लिङ्गसामान्यात् तस्य साध्यस्य धर्मस्य भावः ख्याप्यते यत्र स दृष्टान्त उदाहरणमिति तत्र व्याख्यानात् ।
प्रयोजकत्वमग्नेश्चेति । साध्येन धर्मिणा साधर्म्य समानो धर्मोऽनुमेयसामान्य 25 तस्मादित्येवं व्याख्या। न चैवं युज्यते वक्तुमनैकान्तिकदोषत इति यत्र यत्रारिनस्तत्र
तत्र धूम इति ह्य च्यमाने शुष्कन्धनप्रभवेऽग्नौ धूमस्याभावादनैकान्तिकत्वम् ।