________________
आह्निकम् ]
संशयप्रकरणम् भावाद् विपरीतोऽतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः । पूर्ववद्वचसः कर्मतामापद्यमानो वैधोदाहरणं भवति । विपरीतमित्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः ।
किमर्थं पुनः साध्याभावात् साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते, न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्यभाव इति उक्तमत्र,
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः ॥ इति । किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेनाग्निस्तत्र निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्माभावे- 10 ऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यगतित्वादग्नावेव निविशत इति । यदि तु साधर्म्यदृष्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानग्निना व्याप्तेनाग्निस्तत्रालब्धनिवेशो धममवलम्बेतेति स्यात, न चैतन्निर्वहत्यधमेऽपि वह्निदर्शनादित्येवं सपक्षैकदेशवृत्तेर्हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुर्यादिति । अपि 15 च धूमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्नि मा हासीदित्यग्निस्त्वनियमितः स्वातन्त्र्यादधूममपि स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत । तदुक्तम् 'यदा तु साध्याभावेन हेत्वभावो विरुध्यते साधनं ख्यापितं भवेत्, साध्यं पुनः स्वतन्त्रत्वाद्धेतुभावेऽपि सम्भवेत्' इति । तस्माद् यत्रापि समव्याप्तिकौ साध्यसाधनधर्माविति सपक्षकदेशवृत्तित्वेना- 20 हेतुत्वमाशङ्कयते तत्रापि साधनधर्मस्य विपक्षाद् व्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः, यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाकाश इति । यो ह्यविद्यमानविपक्षो हेतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात् तत्रावृत्तेरिति । अतश्च सर्वपदार्थानित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधर्म्यदृष्टान्तमप्रदर्शयन्न वार्यते यत्र नित्यत्वं नास्ति तत्र 25
सपक्षकदेशवृत्तेरिति । धूमो हि हेतुः सपक्षैकदेशवृत्तिः, अग्निमन्तो हि प्रदेशाः न्या० म० १३