________________
न्यायमञ्जां .
[ दशमम् कार्यत्वमपि नास्ति यथा शशविषाणादाविति । ते एते साधर्म्यवैधर्योदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भवन्ती विकल्पेन प्रयोक्तव्ये, एतेनैव व्याप्तेः प्रदर्शनात् किमन्येन कृत्यम् ।
केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति । भवतु मा वा भून्नेदं महद् विमर्दस्थानम् । ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम् । समानजातीयाभिप्रायं तद् भविष्यति, साधर्म्यदृष्टान्तानेकत्वे वा तन्निग्रहस्थानमित्यास्तामेतत् । इत्थं साधर्म्यवैधादृष्टान्तरूपे व्युत्पादिते बलात् तल्लक्षणरहिता दृष्टान्ताभासा भवन्ति । तत्र साध्यविकल: साधनविकल उभय
विकल इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः, अनन्वयो विपरीतान्वय 10 इति द्वौ वचनदोषकृतौ। यथा नित्यः शब्दः अमूर्तत्वादित्यत्र बुद्धिवदिति
साध्यविकलो दृष्टान्तः, परमाणुवदिति साधनविकल:, घटवदित्युभयविकलः । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वयः, यदमूर्तं तन्नित्यमिति वक्तव्ये यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । वैधादृष्टान्ताभासा अपि पञ्चैव
साध्याव्यावृत्तः साधनाव्यावृत्तः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः । अव्य15 तिरेको विपरीतव्यतिरेक इति वचनदोषौ द्वौ । यथा तत्रैव हेतौ यत्र नित्यत्वं
नास्ति तत्र मूर्तत्वमपि नास्ति यथा परमाणुष्विति साध्याव्यावृत्तः, बुद्धाविति साधनाव्यावृत्तः, यथा आकाश इत्युभयाव्यावृत्तः । नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्यतिरेकः, यत्र नित्यत्वमपि नास्ति तत्रामूर्तत्वमपि नास्ति इति
सपक्षाः, न च सर्वेष्वसावस्ति, शुष्कन्धनप्रभवेऽग्नावसम्भवात् । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वय इति । एवं ह्यच्यमाने प्रकृतेन हेतुवचनेन साध्यसम्बन्धेनान्वयो न प्रदर्शितो भवति । यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । व्याप्यस्य प्राथम्येन यच्छब्देन च निर्देशः कर्तुमुचितो व्यापकस्य तु पश्चाद् निर्देशस्तच्छब्देनैव कार्यः, यत्र धूमस्तज्ञाग्निरितिवत् । तदुक्तम्,
उद्देश्यो व्याप्यते धर्मो व्यापकश्चेतरो मतः । यवृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ॥
तवृत्तमेवकारश्च स्यादुपादेयलक्षणम् । दोषश्च स्फुट एव मनसो नित्यस्याप्यमूर्तत्वाभावात् ।