________________
आह्निकम् ]
संशयप्रकरणम् वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति । एते च वस्तुवृत्तेन हेतुदोषा एव तदनुविधायित्वात्, अत एव हेत्वाभासवत् सूत्रकृता नोपदिष्टाः, अस्माभिस्तु शिष्यहिताय प्रदर्शिता एव ।
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः॥
उदाहरणमात्मलाभेऽपेक्षत इत्युदाहरणापेक्षः पक्षधर्मोपसंहार उपनयः। 5 द्विविधश्चासौ तथेति न तथेति वा, उदाहरणद्वैविध्यात् । तत्र साधर्योदाहरणापेक्षस्तथेत्युपनयो यत् कृतकं तदनित्यं दृष्टं यथा आकाशः । न च न तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद् विधिरेव गम्यते ।
ननु साध्यस्येत्यवाचकः सूत्रावयवः । पक्षधर्मोपसंहारो ह्यपनयो न साध्योपसंहारः । साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार 10 इति ।
उच्यते, साध्यो धर्येव न धर्म इह विवक्षितः । तत्रायं हेतोरुपसंहारस्तथा च कृतकः शब्द इति । सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या । साध्ये धर्मिणि हेतोरुपसंहार उपनय इति ।
नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी । सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥ नैतत् सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा । योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तर्निगढे च प्रायः षष्ठी नियुज्यते । शेषो नामाविवक्षैव कारकाणामिति स्थितिः ॥ तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः ।
तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥ पक्षधर्मोपसंहारः पक्षधर्मस्य हेतोरुपसंहारः 'तथा चायं कृतकः' इति ।
नन्वाधारविवक्षायामिति । अथास्यानाश्वास इतिवत् । सम्बन्धमात्रापेक्षया षष्ठया निर्देशस्तथाप्याधाराधेयभाव एवासौ सम्बन्ध इति कुतो लभ्यत इति तदेवाह 25 सम्बन्धमात्रे वाच्ये वेति । सर्वत्र विशेषोऽन्तर्व्यवस्थित इति । राजा पुरुषं बिभर्ति यतो राजपुरुष इति ।