________________
5
10
15
न्यायमञ्जर्यां
[ दशमम्
अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छेतिवत् सम्बन्धमात्रसमर्पिकापि सेयं षष्ठी विशेषपर्यं वसाना भविष्यतीति सूक्तं ‘साध्यस्योपसंहारः' इति ।
उपनयवैयर्थ्यशङ्का
25
१००
ननूपनयवचनमनर्थकम्, पक्षहेतुदृष्टान्तवचनैः किं न पर्याप्तं यदर्थमुपनयवचनमुच्चार्यते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदैष वृथैव श्रमः, पक्षधर्मं वचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात् । अथ साध्यदृष्टान्तधर्मिणोः साध्यापादनाय तदुच्चारणम्, तदपि न, चतुरस्रम् उदाहरणसाधर्म्यादित्यनेनैव गतार्थत्वात् । उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत् । अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचनम्, तत्रापि परामर्शज्ञाने विवदन्ते । अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमिति उपजायते तत् किं परस्मै तदुपदिश्यताम् । योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः । तथा हि यद् यत् कृतकं तत् तदनित्यं दृष्टं कृतकरच शब्द इतीयतो वचनात् को नाम शब्दानित्यतां नावगच्छेत् ? वामे चात्र सत्यव्रतधनः प्रमाणम् 'डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियतार्थं बुद्धयसे न वा । तस्मात् स्वप्रक्रियापक्षपातमपास्य पञ्चावयवम् एवंक्रमकं वाक्यं प्रयुङ्क्ष्व' इति । उपनयव्यर्थतोद्धारः
अत्रोच्यते, इदं तावद् भवान् पृष्टो व्याचष्टाम्, किं स्वप्रतिपत्तिमनुसरन्तः 20 परप्रतिपादनाय वाक्यरचनां कुर्म उत परहृदयानुवर्तनेनेति । तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे ।
अतश्च धर्माय जिज्ञासेति । यथात्र सामान्येन भाष्यकृता ' सा हि तस्य ज्ञातुमिच्छा' इत्यनेन षष्ठीसमास निर्देशाय प्रदर्शिता, 'धर्माय जिज्ञासा' इति त्वनेन तादर्थ्याख्यसम्बन्धविशेषपर्यवसायित्वं प्रतिपादितम् । तदुक्तम् ' सा हि तस्य' इत्यनेनोक्तधर्मस्येत्येष विग्रहः, 'धर्माय' इति तु पूर्वोतमस्यैवार्थोपवर्णनमिति, तद्वदिह ।
fsfuseरागं परित्यज्येति । क्षपणकाभिनिवेशं त्यक्त्वेत्यर्थः ।