________________
आह्निकम् ]
संशयप्रकरणम्
१०१
किं भुवमुत्क्षिपामः किमरत्निना परं पीडयाम उत हस्तसंज्ञया व्यवहरामः, आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यमभिदध्मः, उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयामः, इत्येवमनवस्थितत्वात् पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः । तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते । ततो धूमादिलिङ्गमुपलब्ध - 5 मिति हेतुवचनेन तदावेद्यते । ततो यत्र धूमस्तत्राग्निर्यथा महान इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते । ततस्तथा चायं धूम इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते। ततस्तस्मादत्राग्निरित्यनुमेयज्ञानमुपजायत इति निगमनेन तदुच्यते । ततः परं प्रति पर्यवसानात् किमन्यदुपदिश्यतामिति, न च दधिभक्षणसदृशमतोऽन्यतममपि 10 भवितुमर्हत्यनुमेयप्रतिपत्तावुपादेयत्वात् ।
येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनयवचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्यथेति । अतो यद्यपि पक्षधर्मवचनेन हेतुसम्बन्धमात्रमुपपादितम्, तथाप्यत्र दृष्टान्तदर्शितशक्तिधर्मः स तस्मिन् धर्मिणि तथाविधो हेतुः स्यात् । न वा इत्यसिद्धाशङ्काशमनमुपनयवचन॑मन्त॒रेण॒ न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात् क्रमोऽपि यथोक्त उपयुज्यते । अत एव च यत् कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नम्, अनवगते धर्मिणि तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासम्भवेन तद्वचनायोगात् । तदिदमवयवविपर्यासवचनमप्राप्तकालनिग्रहस्थानमुपदेक्ष्यामः । अपि च ' यत् कृतकं तदनित्यं दृष्टं कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यम्' इति वदता भवता कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातम्, कृतकत्वादिति पक्षधर्मवचनन्तु निह्नुतम् । कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्, न, प्रयोजकस्य पञ्चम्यादिनिर्देशार्हत्वादिति यत्किचिदेतत् । यदप्युच्यते विदुषां वाच्यो हेतुरेव
विदुषां वाच्यो हेतुरेवेति ।
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥
15
20
25