________________
१०२
न्यायमञ्जयां
.. [ दशमम् केवल इति, तदप्यचारु, विद्वद्भिविद्वत्त्वादेव हेतोरपि प्रज्ञानात्, अपूर्वा इमे विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति । तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परः प्रत्याय्य इति । निगमनलक्षणम्
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ हेतुर्मिणि नितिशक्तिः साध्ये धर्मिण्यपदिश्यतेऽनेनेति हेत्वपदेश उपनयः, तस्माद् हेत्वपदेशात् प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनम् । निगम्यन्तेऽनेन पूर्वोक्ता अवयवा एकत्र साध्येऽर्थे समर्थ्यन्ते नियोज्यन्ते इति निगमनम् । तस्मात् कृतकत्वादनित्यः शब्द इति तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोदृष्टान्तस्य च तदपेक्षिणश्च तथा न तथेत्युपनयस्य द्वैविध्येऽपि प्रतिज्ञावचनवत् तुल्यमेव भवति । प्रतिज्ञावनिगमनमपि व्यर्थमिति शङ्का
ननु प्रतिज्ञावचनमेव तावदसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव 15 तु पुनर्वचनं निगमनमसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव तु पुनर्वचनं
निगमनमधुना सफलं भविष्यतीति केयं कथा, प्रतिज्ञायाः पुनर्वचनमिति च न वाचको ग्रन्थः, साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तू निगमनमिति । वाचके वा ग्रन्थे पौनरुक्त्यादेव निगमनस्य नष्फल्यम् । स्वप्रतिपत्तौ च
परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यन्ते, सा परस्याप्युपनयवचन20 श्रवणसमनन्तरमुपजायत एवेति किं तदुक्तया प्रयोजनम् ? निगमनव्यर्थतानिरासः
उच्यते, प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुनर्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रमास्यादुच्यते, सिद्धसाध्यभेदादेव
च न पौनरुक्त्यकृतमसाफल्यम्, स्वप्रतिपत्तिसमये च परामर्शज्ञानानन्तरं 25 साध्यबुद्धिरुत्पन्ना, सा परस्मै कथ्यमाना न निष्प्रयोजना भवति ।