________________
आह्निकम् ]
संशयप्रकरणम्
साध्य महमज्ञासिषं
यथा ।
तस्माद्धेतोरिदं तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ।।
१०३
एवमुक्ते संशयानस्य संशयः शाम्यति विपर्यस्तमतेश्च विपर्ययः । तदर्थश्च परार्थानुमानोपन्यासश्रमः । तदिदं विपरीतप्रसङ्गनिषेधार्थं निगमनमाहुः ।
ये तु
यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभादपि
प्रतिज्ञायाः सिद्धिमबुध्यमाना असाधारणशङ्काव्यवच्छेदाय निगमनवचनमिच्छन्ति ते न सम्यगभ्ययुः । असाधारणशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात् । विशेषस्य हि हेतुत्वशङ्कायामसाधारणशङ्का स्याद् यत् कृतकं तदनित्यमिति । दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाशङ्क्येत ? यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारादसाधारणत्वमाशङ्कयेत 10 तत् पुनर्दृष्टान्तधर्मवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन् दर्शिते पुनस्तद्वृत्तित्वाद्धर्मिण्यसिद्धत्वमाशङ्कनीयं पुनस्तद्वयावृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणाश शङ्काव्युदासाय प्रयोगः किन्तु पूर्वरीत्यैवेति । तस्माद् विवक्षितेऽर्थे तथोदिते क्रमनिवेशिनोऽवयवान् एकत्र सङ्घटयितुं निगमनवचनं प्रयोक्तव्यम् ।
5
15
भवयवेषु प्रमाण संप्लववर्णनम्
त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साधयन्ति । तत्र मुख्यया वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते । प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात् । अनित्यः शब्द इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति । प्रतिज्ञावचनन्तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्ध्यर्थे वा शास्त्रे
20
प्रतिज्ञायास्तावदागमोऽनुग्राहक उपयेत इति । सर्वा एव हि प्रतिज्ञाः प्रथममुच्चरन्त्य आगमवत् प्रतिभान्तीति तत्तुल्यविषया एव भवन्त्यतस्तेनानुगृह्यन्ते । आगमवत् प्रतिभानेन तद्विषयोपादेयतासंभवादागमानुग्रहः । यद्येवमागमवत् प्रतिभानात् प्रतिज्ञायाः 25