________________
१०४ न्यायमञ्जयां
[ दशमम् तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतमुच्यते। हेतुवचनमनुमानेनानुगृह्यते। उदाहरणन्तु प्रत्यक्षेण, तन्मूलत्वाद्वयाप्तिपरिच्छेदस्य । यथा गौस्तथा गवय इति च यथा घटस्तथा शब्द इत्यनया च्छाययोपमानकरणभूतवनेचरादिवचनसदृशत्वादुपमानमुपनयस्यानुग्राहकमभिधीयते । निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानुग्राह्यतैवेतरेतरानुषक्तत्वात्, प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं प्रयोक्तव्या अनित्यः शब्द इति । ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते कृतकत्वादिति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत् कृतकं तदनित्यं दृष्टं यथा घट इति ।
एवमुक्त किमीदृशो नितिशक्तिरेष हेतुः साध्यमिणि भवेन्न वेत्यसिद्धता10 शङ्कामपाकर्तुमुपनयः प्रसज्यते । ततोऽमुना क्रमेण तथापि साध्यप्रतीति
र्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते । अन्यतममवयवमन्तरेण सकलमिदमननुषक्तार्थवाक्यं स्यादिति पञ्चावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ।
इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणेरन्योऽन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् । यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग
प्रायैः शक्यो न पक्षः क्षपयितुमिति हि व्याहरद् वृत्तिकारः । इति भट्टजयन्तस्य कृतौ न्यायमञ्ज- दशममाह्निकम् ।
कथं हेतुवचनमित्याह उक्त्वा त्विति । तत्प्रतिज्ञायाः शब्दविषयत्वादिति शब्दप्रमाण20 विषयत्वादिति । इयं तद्विषयभूतेन शब्देनानुगृह्यते, स शब्दो ह्यभिधेयत्वेनास्यां
प्रतिज्ञायां स्थित इति । अयं तु सर्वप्रतिज्ञासम्भवी न भवत्यागमानुग्रह इति भाष्यकृन्मतं त्विदमपीति कृत्वा केवलं दर्शितम् । हेतुवचनं त्वनुमानेनानुगृह्यते । सत्यर्थरूपेऽनुमाने तत्प्रतिपादकस्य वचनस्य सम्भवोऽनुग्रहः ।
___ इत्यारब्धोपकारा इति प्राङ्नीत्या कृतानुग्रहाः । तदनुगुणफलैरिति । तथाहि 25 प्रत्यक्षेण व्याप्तिग्रहे सत्युदाहरणं प्रवर्तते, इतरथा व्याप्त्यग्रहाद् उदाहरणाप्रवृत्तिरित्युदा
हरणानुगुणं प्रत्यक्षफलं व्याप्तिपरिच्छेद इति । इति हि व्याहरद वृत्तिकार इति ।