________________
आह्निकम् ]
संशयप्रकरणम् यथा पटरूपस्य तन्तुरूपमिति । अवधृतसामर्थ्यञ्च तदसमवायिकारणमाश्रयणीयम् अतो बुद्धिजन्मनि सत्यप्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वम्, अपि तु अवधृतसामर्थ्यस्यात्ममनःसंयोगस्यैवेति । • समवाय्यसमवायिव्यतिरिक्तन्तु कार्योत्पत्तौ नितिसामर्थ्यं यत् कारणं तन्निमित्तकारणमुच्यते । इत्येवं स्थिते शब्दस्य नित्यत्वे निरस्ते कार्यत्वे च 5 साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमित्तकारणानि तु भूयांसि सन्त्येव, असमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितमवश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणाञ्च विभुत्वादीनामनवधृतशक्तित्वात्, वंशदलपाटनसमनन्तरञ्च शब्दोत्पाददर्शनादेवं मन्यामहे,
क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् । तदैव गगने कञ्चित् करोत्यतिशयं ध्रुवम् ॥ आकाशातिशयो यश्च क्रियाजः शब्दकारणम् ।
असौ विभागनामेति शब्दे तज्जन्यतोच्यते ।। तदेवमेतद् यथागमाचार्यमतमभिहितमस्माभिः । एतच्च मतिमद्भिर्विचारणीयम्, किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेरीदण्डसंयोगकार्ये 15 शब्दे भेरीगगनसंयोगस्यासमवायिकारणत्वम् एवं वंशदलविभागकार्ये तस्मिन् दलगगनविभागस्येति । दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति, सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् ।
20 अवसरतः सूत्रपदव्याख्यानम्
_ विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे, सेयं विप्रतिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति । न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणम् अपि तु विप्रतिपत्तिरेवेति । अत्रापि त्रिरूपपरिग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनु
___ अत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनमिति । तथाहि, विप्रतिपत्तेः संशयः इत्युक्ते 25 अग्रहणेऽपि तस्याः संशयप्रसक्तिस्तदर्थं विप्रतिपत्त्युपपत्तेरिति । तथापि विप्रतिपत्तिशब्दा