________________
न्यायमञ्जय
[ दशमम्
यद् वा नान्यो वंशदलविभागो नान्यश्च तत्कार्यो दलाकाशविभागः; किन्तु, एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः । एकत्र देशेऽवस्थानाद् व्योम्नो वंशदलस्य च || समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते । व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ।। एकदेशाश्रयत्वे तु यदेकस्माद् विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ॥
विभागजविभागानङ्गीकत्र कर्मजविभागोऽपि नाङ्गीकर्तव्य इति मतविचारः
अपरे पुनर्वभागजविभागपराकरणोपारूढरभसा सङ्गिरन्ते तिष्ठतु तावद्दूरत एव विभागजो विभागः कर्मजोऽपि न विभागो नाम कश्चिदस्ति । संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत् पूर्वसिद्धता अवश्यम्भाविनी, ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगदुपलब्धिर्भवेत्, न चैवमस्ति । तस्मात् संयोगाभाव15 विषय एव विभक्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते । सत्यपि विभागे तस्मिन् क्षणे संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः । क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते न प्रत्यक्ष गम्यता विभागस्य । संयोगभङ्गलिङ्गेन च तत् परिकल्पनक्रियैव तं हिनस्तीति पुरस्तात् प्रतिपादितम् ।
कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यते, त्रिविधं कारणं कार्योत्पत्ति विधत्ते, समवायिकारणम् असमवायिकारणं निमित्तकारणञ्चेति । तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्तवः । असमवायिकारणन्तु द्विविधं कार्येकार्थसमवायलक्षणप्रत्यासत्त्या प्रत्यासन्नं कारणैकार्थसमवायलक्षणया वा । तत्र कार्यैकार्थसम25 वायेन प्रत्यासन्नं यथा पटस्य तन्तुसंयोगः । कारणैकार्थसमवायेन तु प्रत्यासन्नं
10
20
52
७४
कार्यकारणैकार्थसमवायेन तु प्रत्यासन्नमिति । कार्यस्य पटरूपस्य कारणं समवायिकारणं, यः पदस्तेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे समवायस्तन्तुरूपस्य ।