________________
आह्निकम् ]
७३
यथा च विभागेऽधिकरणनियम:, यदाधारो विभागस्तदाधारमेव संयोगं निरुणद्धि; तथा कर्मण्यपि नियमः, कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं तत् तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः । एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं दिगन्तरसंयोगस्य तेनोपमर्दनात् । अपि च यदेव कर्म वंशदलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोष: ?
संशयप्रकरणम्
ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागारम्भकम् अम्भोरुहपल्लवकर्मवदित्युक्तम्, सत्यमुक्तम्, अयुक्तन्तु शतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात् तच्च कुड्मलकमलाद् विकचकमलस्यान्यत्वनिश्चयान्निश्चितम् ।
,
ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात् कथं सङ्कोचविकासदशामात्रभेदात् तदन्यत्वम् इति कृतमनया दुराशया, शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्शनात् । न च शरीरकुशेशययोविशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् भवतु वा पुण्डरीकस्याविनाशः, निदर्शनमात्रमिदन्तु वर्णितं न तु प्रतिबद्धः कश्चन हेतुरभ्यधायि येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत । क्रियात्वन्त्वप्रयोजकमेव, कर्मणां विचित्रकार्यहेतुत्वात्,
5
10
15
20
विरुद्ध दिग्वृत्तेः संयोगस्य निवर्तकमिति नातिप्रसङ्गः इति । यदि हि कर्म स्वाश्रयादन्यस्य संयोगं निर्वर्तयेत् तदा विभागजविभागानभ्युपगमः, न तु 'अङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवति' इति सूचितो योऽतिप्रसङ्गः स आपतेद् न त्वेवमस्तीति भावः । एवं कर्माविष्टस्योत्तरसंयोगदर्शन मदूषणमिति । कर्माविष्टस्य कर्म विनोत्तरसंयोगाभावात् संयोगोत्पत्तौ कर्मण एव कारणत्वमवगतम् । यच्च यस्योत्पत्तिकारणं तदेव तस्य विनाशहेतुरिति न वाच्यम्, विरुद्ध दिक्संयोगोपमदं विनोत्तरसंयोगस्यैव कर्तुमशक्यत्वादिति भावः ।
कर्मणां विचित्रकार्यहेतुत्वादिति । न ह्येकेन कर्मणा नोदनाख्यः संयोगविशेषो 25 जनित इत्यन्येनापि जनयितव्यो नाभिघातादिरिति ।
न्या० म० १०