________________
७२
न्यायमञ्ज
[ दशमम् दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारिक्रियावत् । तदेव कथमिति चेत्, कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् । इयन्तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यत इति, नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते । संयोगान्तं कर्मेति च तावत् स्थितम्, अन्यथा हि तस्य कालान्तरस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात् कर्मणोऽचिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम् । उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा। न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति ।
___ कर्म तूत्तरसंयोगजन्मनितिकौशलम् ।
न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ।। तस्माद् विभागेनैव संयोगनाशकारिणा भाव्यम् । स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति, न त्वङ्गुलिविभागः कुण्डबदर
संयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिविभागो दलाकाशसंयोगमपहन्तु15 मलमिति नूनं दलाकाशसंयोगेन भवितव्यम् । तदिदानीं तस्योत्पत्तिकारण
चिन्तायां क्रियाया वंशदलविभागमात्रोपजनने चरितार्थत्वात् तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गाद् इति ।
अत्र वदन्ति, न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यति, उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । पूर्वसंयोगानुपरमे कथं तदुत्पाद इति चेत्, बाढमुपरत एव पूर्वसंयोगः, कस्तस्योपरमहेतुरिति चेत्,
कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते । तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥ न च यज्जनने शक्तमशक्तं तद्विनाशने । हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ।।
20