SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ संशयप्रकरणम् आह्निकम् ] अनेकधर्मपदसार्थक्य प्रदर्शनाथं विचारः तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् । यथा हि पृथिव्यादौ पृथिवीत्वादि व्र्व्यावृत्तो धर्मो द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभागजत्वं धर्मः केन द्रव्यत्वादीनामन्यतमेन धर्मेण सहचरितः स्यादिति संशयः । ७१ ननु विभागजत्वमसाधारणं न भवत्येव शब्दधर्मो विभागेऽपि भावात्, तथा च प्रयोगो गुणः शब्दो विभागजत्वाद् विभागजविभागवद् इति । तत्र केचिदाहुः, सत्यम्, अस्ति विभागेऽपि विभागजत्वम्, शब्दे तु विशेषो विवक्षितः । द्विविधो हि विभागजो विभागः कारणविभागपूर्वकः कारणाकारण विभागपूर्वकश्च कारणं समवायिकारणमत्राभिप्रेतम् । कारणविभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः । कारणाकारणविभागपूर्वं कस्त्वङ्गुल्याकाशविभागाद् हस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति । शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः, वंशदलविभागाद् दलाकाशविभागो दलाकाशविभागाच्च समवायिकारणाच्छब्दो निष्पद्यत इत्यनेन विशेषेणास्येदृशविभागत्वस्यासाधारणत्वं शब्दधर्मस्योच्यत , इति । केषाञ्चिन्मते विभागजविभागानङ्गीकारविचार: अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते । 5 10 15 ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं 20 तत्सिद्धौ न्यायः, यदा ह्यवयवे कर्मोत्पन्नमवयवान्तराद् विभागं करोति न तदाकाशादिदेशात्, यदा त्वाकाशादिदेशाद् न तदावयवान्तरादिति स्थितिः । किंकृता पुनरियं स्थितिरिति चेत्, उच्यते, या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते, कारणाकारणविभागपूर्वकस्त्विति । हस्तस्य कारणमङ्गुलयः, आकाशं त्वकारणम्, 25 तयोर्विभागः कारणाकारणविभाग इति ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy