________________
5
न्यायमञ्जय
पूर्ववदत्रापि दर्शयितव्यम्, न चेन्द्रियमनः संयोगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां सर्वबुद्धिजन्मसु तुल्यत्वाद् इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति ।
ةفا
20
[ दशमम्
तत्र मतान्तरप्रदर्शनम्
अन्ये तु सामान्यलक्षणसमुत्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यवच्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोपपत्तिरूपमेव पूर्ववद् वर्णयाञ्चकुः ।
नन्वनेकधर्मशब्देन कथमसाधारणो धर्मं उच्यते, समानजातीयमसमानजातीयमनेकं तस्मात् परावृत्तो धर्मोऽनेकधर्म इति । यद्वा किमनया क्लिष्टकल्पनया । अस्त्ययमेकशब्दः समानपर्यायः, तत्र स्पष्ट एव नञ्समासेना10 समानधर्मोऽनेकधर्मः साधारणधर्म उच्यत एवेति ।
भवत्वेवम्, असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम् । विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः । विशेषाणाञ्च स्मरणहेतोः संस्कारस्य तद्बोधकं भवति येन सहैते पूर्वपर्यायेणोपलब्धाः । असाधारणधर्मस्य त्वसाधारणधर्मत्वादेव न केनचित् सह पूर्वं दर्शनमभवत्, भावे त्वसाधारण15 धर्मतैव हीयेत इत्यतः कथमसौ तत्स्मृतिहेतुः ? व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत ततोऽपि व्यावृत्तत्वाद् इति ।
नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात् । इह हि केषुचित् केषुचिदसाधारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद् यथा पृथ्वीत्वगन्धवत्त्वादयो धर्माः पृथिव्यामसाधारणाः सन्तः स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः । रूपादिषु रूपत्वादिधर्मा गुणत्वसहचारिणः । उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः कर्मत्वसहचारिणः । एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चित् कश्चिदसाधारणो धर्म उपलभ्यमान: केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषानुस्मृतिद्वारेण संशयसाधनम् ।
नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्माद् 25 इति । मैवम्, अनेकधर्मं एवासौ तेन वर्त्मना विशेषान् स्मारयन् संशयजन्मने कल्पते, सति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया ।