________________
आह्निकम्
संशयप्रकरणम् कारणान्तराणामप्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात् । अत्राप्यसाधारणकारणनिर्देशश्चिकीर्षितस्तेनापि कोऽर्थः, सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात् तस्य च विमर्शपदादेव सिद्धत्वात्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव क्लिष्टमिति । पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद् व्याख्येयमित्यतिभारः । एवं विमर्शपदेन विजातीय- 5 व्यवच्छेदकारिणि सामान्यलक्षणे वणिते समानधर्मोपपत्तेरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यत इति । अत्र व्याख्यानद्वयेऽपि कतरत् साध्विति तद्विदः प्रमाणम् ।
10
रुचिकारमतेन लक्षणस्वरूपम्
अनेकधर्मोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहणेनैव लक्षणमाचार्या वर्णयन्ति। अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इत्यर्थः । एकैकपदोपादानफलञ्च
त्पन्न' ग्रहणमसाधारणलक्षणमुक्तम्, न तु कारणान्तरव्यवच्छेदकम् ‘इन्द्रियसन्निकर्षादेव' इति ।
एकैकपदोपादानफलञ्च पूर्ववद् अत्रापि दर्शयितव्यमिति । पनसत्वाद्यसाधारणधर्मिदर्शनादुपलब्ध्यनुपलब्ध्यव्यवस्थातोऽनेकधर्मोपपत्तेः इत्येतावदस्तु मा भूद् 'विशेषापेक्षः' इति पदम् । उक्तमत्र, विशेषानुपलम्भादपि न संशय इति विशेषापेक्षया इतिपदम् । यद्येवमनेकधर्मोपपत्तेविशेषापेक्ष इत्येतावदस्तु मा भूदुपलब्ध्यनुपलब्ध्यव्यवस्थापदम् । उक्तमत्र, असाधारणधर्मनिश्चये द्रव्यत्वाद्यनुस्मृतावपि अधिगतविशे- 20 पस्य संशयाभावात् । यद्येवं विशेषापेक्ष इति न वाच्यं पूर्वोक्तादेव पदद्वयात् संशयोऽस्तु । न, पनसत्वाद्यसाधारणधर्मदर्शनेऽपि विशेषस्मृत्यभावाद् न संशयः किन्त्वनध्यवसाय एव । अनेकधर्मोपपत्तेरिति पदं विना उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति च पदद्वयं संशयहेतुत्वेन नाशङ्कनीयम्; अनेकधर्मोपलब्धि विना कस्य द्वितीयपदेनाभिधानम्, पूर्वपदार्थस्य विशेषणत्वेनोत्तरपदार्थस्य व्यवस्थितत्वादिति । तदेवमत्रापि पदत्रय- 25 साफल्यम् ।