________________
5
10
15
६८
न्यायमञ्जय
[ दशमम्
दर्शने तद्गतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयः । अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदानन्तरमुपादीयते। देशान्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमंग्रहणं संशयकारणं न विशेषाग्रहणमात्रम् । एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ।
ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात् समानधर्मोपलब्धिविशेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्यमापद्यते, क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद् व्यापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद् भूयांसि भवेयुः ?
नैतदेवम्, समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशेषानुभवपरम्परोपचितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति, यथा वर्णानामर्थप्रतीतौ वर्णितम् । उपलब्ध्यनुपलब्ध्यव्यवस्थापदसूचिता च विशेषानुपलब्धिरेव, न सा ज्ञानात्मिका किन्तु ज्ञानानुत्पाद इति । तत् तृतीयं कारणमपि भवन्न ज्ञानात्मकम् । ज्ञानात्मके कारण समानधर्मग्रहणं विशेषस्मरणञ्च तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमुपजनयतः । ईदृशोश्च ज्ञानयोर्यौगपद्यमविरुद्धमिति शास्त्रे स्थितम् । एवं समानधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यत इति ।
,
मतान्तरेण सूत्रव्याख्यानम्
तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते । सामान्यलक्षणं 20 तावद् विमर्शपदेनैव प्रतिपाद्यते । न हि पर्यायोच्चारणमात्रमिदं विमर्शः संशय इति, किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् । प्रमाणपदवच्च निर्वचनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षमं भवति । विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा पुरुषो वेति । इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति । संशयोत्पादक25 कारणपरिगणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते,
इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिति । यथा प्रत्यक्षलक्षणे 'इन्द्रियार्थसन्निकर्षो