________________
आह्निकम् ]
संशयप्रकरणम् परिणाहादिना विशेष्यत इति । तस्मिन्नेव साधारणधर्माध्यासितवपुषि मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव संशयो जायते योऽयमूर्ध्वत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात् पुरुषो वेति नार्थान्तरत्वदूषणम् । तथापि वक्रकोटरकरचरणादिविशेषदर्शिनो न दृष्ट: संशय इति कारणान्तरमुच्यते उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । अनेन कथं विशेषाग्रहणमुच्यते ? 5 इत्यमुच्यते, इदन्तया अनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपलब्धिर्वेति। विशेषग्रहणे सति तद् व्यवस्थानं सम्भवति स्थाणरयं न पुरुष इति वककोटरादिविशेषग्रहणे, शिरःपाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति । एवमनेन पदेन विशेषग्रहणमुक्तम् । तथापि प्रेङ्खारूढस्य साधारणधर्मदर्शिनो विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते विशेषापेक्ष इति, 10 विशेषस्मृत्यपेक्ष इत्यर्थः ।
ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यम्, अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते । स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावपेक्षा नानुभूयमानतया। अनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः । अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते । विशेषाणामपेक्षा 15 आकाङ्क्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकाङ्क्षयन्ते इतीयं सा तेषां स्मृतिः, सम्प्रत्युपलभ्यमानेष्वेकान्ताननुभूतेषु वा तेष्वाकाङ्क्षानुपपत्तेः । ___ ननु समानधर्मोपपत्तेविशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्रहणेन ? अपि च, विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः ।
20 ग्रहणं स्मरणञ्चैव भवेतां युगपत् कथम् ॥ .... किन्तु नातिदूरगतायां निजप्रमदायामनुरागवतः कामिनः समानधर्म
तथापि प्रेङ्खारूढस्येति । प्रेङ्खारूढो हि द्रुततरं गच्छन् वृक्षत्वं धवखदिरसामान्यधर्म पश्यति, अनध्यवसायाच्च व्याक्षेपेण दृश्यानपि विशेषान् नावधारयति, न च संशयः; विशेषस्मृत्यभावादिति । चलवृक्षादिज्ञानं वा यत् प्रेङ्खाद्यारूढस्य न तत् संशयज्ञानम् 25 अनध्यवसायरूपत्वात् तस्येति ।