________________
न्यायमञ्जयां
[ दशमम् च विशेषाग्रहणम् इतीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः संग्रहः । समानशब्दस्त्वाक्षिप्तसामान्यवचनः सत्सामान्यवचनमाह अनुगतसामान्यवचनस्तु विशेषलक्षणमिति । .
कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वानुगतसामान्यवचन इति ? 5 उच्यते, संशयोत्पत्त्यैव सामान्यधर्ममात्रमाक्षिप्यते यद् गृह्यमाणं विशेषस्मरण
बीजसंस्कारोबोधनिमित्ततां प्रतिपद्यते, तद्वयतिरेकेण संशयानुत्पादात् । तथाहि, विरुद्धविशेषावमर्शस्वभावस्तावत् संशयः, न च विरुद्धविशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानामवमर्शनम्, विरुद्धतयैवैकत्र सन्निधानाभावाद् ।
अतः स्मृत्युपारूढानामवमर्शनं स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां 10 तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तं तद्दर्शनसंस्कारप्रबोधद्वारेण
स्मरणकारणमवश्यमेवाश्रयणीयम् । तच्चानुगतं वा भवतु व्यावृत्तं विप्रतिपत्त्यात्मकं वा, आन्तरमुपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वा इत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात् सामान्यलक्षणार्थता ।
यदा त्वनुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्टे समानशब्दस्तदा विशेष15 लक्षणार्थ इति ।
तत्र चेत्थं सूत्रयोजना, समानो धर्मः परिणाहादिस्तस्य गुणत्वेन प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावगतिविषयीकृतत्वात् समानत्वमुच्यते, तस्योपलब्धिरुपपत्तिः। अथापि सत्ता उपपत्तिशब्देनोच्यते साप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति ।
ननु समानधर्मोऽर्थान्तरं धर्मिणः, न चार्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमर्हति ? न, अर्थान्तरविशेषत्वात्, अर्थान्तरविशेषस्तु धर्येवोच्यते, अर्थान्तरेण
तच्चानुगतं वा भवतु व्यावृत्तं वेति सर्वथा यादृक् तादृग् भवतु सामान्यरूपतामात्मानोऽनाक्षिपन्न संशयः जन्मनि समर्थं भवतीति आक्षिप्तसामान्यवाचकः; यत्पुनः
साक्षादेवोभयवृत्तित्वेन सामान्यं नाक्षेपवृत्त्या तद्वाचकः अनुगतसामान्यवाचको 25 विशेषलक्षण इति ।
- नार्थान्तरविशेषत्वादिति प्राक्तनचोद्यपरिहाराय भाष्यकृतोक्तम् । तदेव भाष्यं पठित्वोत्तरग्रन्थेन व्याचष्टे अर्थान्तरविशेषश्च धर्म्यवेत्यादिना ।