SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् संशयप्रकरणम् संशयपरोक्षणम् संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोजनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेयानन्तरं संशयोद्देशादुद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ।। ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात् सामान्यलक्षणम्, विभागः, विशेषलक्षणानि चवक्तव्यानि । तत्र सामान्यलक्षणे विभागे च सूत्रद्वयं विशेषलक्षणार्थञ्च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकम् इत्येव सप्त सूत्राणि प्रणेतुं युक्तानि । एकञ्चेदं सूत्रं श्रूयते तत्कथमेतद्भविष्यति ? 10 उच्यते । सत्यमाह भवान्, किन्त्वेकमेवेदं सूत्रमावृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते। रुचिकारमतेन सूत्रव्याख्यानम् __तत्राचार्यास्तावदेवमाचक्षते, समानधर्मोपपत्तेरुपलब्ध्यनुपलब्धिव्यवस्थातो विशेषापेक्षो विमर्शः संशय इतीयत् सूत्रं सामान्यलक्षणप्रतिपादकम् । 15 समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इयदस्य विशेषलक्षणप्रतिपादकमिति । नन्वेतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत् ? उच्यते, विशेषस्मरणकारणभूतसाधारणधर्मग्रहणाद् विशेषाग्रहणाद विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत् । तत्र 20 विशेषापेक्षइत्यनेन पदेन विशेषस्मरणमुपदिष्टम्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन न्या० म०२
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy