________________
5
न्यायमञ्ज
[ नवमम् सांख्यैर्यंस्त्वपवर्गसाधनविधावुक्तः प्रकृत्यात्मनोरन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः । अज्ञा शक्तिमती विकारबहुला बध्नात्यकिञ्चित्करं । भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ।। पूसा न किञ्चिदपि बन्धनिदानभूतमत्यल्पमात्रमपि कर्म कृतं कदाचित् । मथ्नाति तं प्रकृतिरेव निरङ्कुशेषा मत्ता करेणुरिव पद्मवनानि भूयः ॥ . कचनिलुञ्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम् । क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थविदस्तु ते ॥ लोम्नां नित्यमसम्भवात् खलतयो मोक्षं क्षणात् प्राप्नुयुः संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् । मुक्ताः स्युगिरिशृङ्गयायिन इमे शश्वत् तदारोहणाज्जन्तूनामपवर्गवम निकट केनेदृशं दर्शितम् ।। तस्मादात्मज्ञानं सन्तो मोक्षप्राप्ती हेतुं प्राहुः । तीर्थे तीर्थे तच्चाचार्यस्तैस्तैरुक्तं संज्ञाभेदैः ॥ यदपीह केचिदविकल्पमीश्वरप्रणिधानमाहुरपवर्गसाधनम् । इदमात्मदर्शनमवादि तैरपि प्रथितो हि पुरुषविशेष ईश्वरः।। दृष्टा बाह्यान्तराणां गतिरियमियती नापवर्गस्य मार्ग स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति । नेदीयानेष तस्माद् भवमरुपतितैरक्षपादोपदिष्टः पन्थाः माय मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥
इति भट्टजयन्तकृतौ न्यायमञ्ज- नवममाह्निकम् ।
कस्तां नियन्तुं क्षमः इति यदुक्तं तदेव स्फुटयितुमाह, पुंसा न किञ्चिदित्यादिना। 25 यदपोह केचिदित्यादिना पाशुपतमतमाह । महेश्वरप्रणिधानात् तद्देहप्राप्ति मोक्षमाहुः ।
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरोग्रन्थिभङ्गे नवममाह्निकम् ।