________________
आह्निकम् ]
प्रमेयप्रकरणम् पन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः । तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् । परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम् । अतो न षटकयोगादिना सावयवत्वमेषामुपपादयितुं पार्यते। मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यतेऽतः प्रमेयपर्यालोचनवम॑नापि शून्यवादसमर्थनं न सुशकम् । 5 प्रमेयविचारोऽपि निष्प्रमाणवृत्तमेव निरूप्यते । ततश्च प्रमाणचर्चातो बिभ्यद्भिः पलायप्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि सैव भीषणमखी प्रमाणचर्चेवोपनता ।
सर्वतो विपदां मार्गमादेशयितुमुद्यते । विधौ विधुरतां याते प्रपलाय्य क्व गम्यते ।। तस्मात् प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये । एवम्प्रायमयुक्तं यत् कुशकाशावलम्बनम् ।। तेन निष्फलमुत्सृज्य शून्यवादवकव्रतम् ।
बाह्येनैवार्थजातेन व्यवहारो विधीयताम् ॥ अथास्थाशैथिल्यजननाय सर्वं शून्यं क्षणिकं सर्वं निरात्मकमित्यु- 15 पदिश्यते, तर्हि किमनेन मृषोद्यमेन ? सत्यप्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षुः क्षणिकनैरात्म्यशून्यवादिवचनं युक्तिबाधितमवबुध्यमानो वञ्चनामयमिव तदुपदेशमाशङ्कते ।
स एष बुद्धिशून्यानां शून्यवादपरिग्रहः । प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥ तस्मात् परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् ।
विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ।। अपवर्गपरीक्षोपसंहारः
तदेवमद्वैतदृशा न दृश्यते जनस्य निःश्रेयससम्पदागमः। 25
अतो यथोक्तात्मसतत्त्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये ॥
तस्मात् प्रमाणतोऽशक्त इति । यदि प्रामाणिको वस्तुनिर्णयस्तत्तूष्णीं स्थातव्यम्, अप्रामाणिकश्चेत् प्रमाणाभाव एवोद्भाव्य इति ।