SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 10 न्यायमञ्जा [ नवमम् विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः । तदावयविनाशो हि बुद्धौ विपरिवर्तते ।। अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन् बुद्धया समुल्लिख्यमानेऽवयवविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यते । वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते । न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत् ।। व्यासज्य वर्तमानोऽपि न खल्ववयवान्तरैः । वर्तते तदसंवित्तेः किन्तु वर्तत एव सः ॥ तथा चाहुः 'वर्तत एव ब्रूमः, अनाश्रितस्यानुपलम्भात्' । वृत्तिरेवंविधान्यत्र क्व दृष्टेति तदुच्यते । प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ वाह्यार्थसिद्धिः तस्मात् प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तवृत्तौ विकल्पानामवसरः । स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता तदियमवयवि15 वृत्तिरपीदृशी दृश्यमाना किमिति नियते । न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदपवादः समस्ति । अदुष्टकरणोद्भूतमनाविर्भूतबाधकम् । असन्दिग्धञ्च विज्ञानं कथं मिथ्येति कथ्यते ॥ न च सेनावनवदवयविग्रहणमभिधातुमुचितम् अबाधितत्वात्, सेनादौ च 20 बाधकसम्भवात् । अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमानत्वात् तत्समवाये सेनावनादिप्रतीतिरुत्पद्येतापि, इह तु किंसमुदायविषयः पटप्रत्यय इति चिन्त्यम् । तन्तुसमुदायालम्बन इति चेत्, तन्तुप्रत्यय इदानी किमालम्बनः ? सोऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः पत्त्यश्वशमीशिंशपादिस्थानीया वक्तव्याः, तेषाञ्च तद्वद्ग्रहणमनुप अवविविनाशोऽपि नानुल्लिखितो भवेद् अवयवविभागहेतुत्वात् तन्नाशस्य । वृत्तिश्च व्यासज्यैवेति । कात्स्न्येन सकलावयवेषु न, एकैकपरिसमाप्त्या । किंसमुदायालम्बन इति । केषां समुदाय इति किसमुदायः ।
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy