________________
आह्निकम् ]
प्रमेयप्रकरणम् निवर्त्यत इति । तस्माद् बाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपत्तेविज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् ।
तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः कृपणतरा इव लक्ष्यन्ते । अपूर्व एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ।
दृढेन चेत् प्रमाणेन बाधादिरहितात्मना । गृहीत एवावयवी किमेभिर्बालवल्गितैः ।। अथ नास्ति प्रमाणेन केनचित् तदुपग्रहः ।
एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ।। . न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किञ्चिदपश्यद्भिस्तदेव 10
पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम् । अविकल्पं प्रत्यक्षं प्रमाणमिति साधितम् । निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमविकल्पकग्राह्यमेव वस्तु गृह्यत इति दर्शितम् । एकाकारविषयव्यतिरेकेण च तबुद्धेरेककार्यत्वैकदेशव्यवस्थानाद्यन्यथासिद्धिनिबन्धनमपि न किञ्चिद्वक्तुं शक्यत इत्युपवर्णितम् । क्वचिद् वा पृतनादौ बाधकोपनिपातादेवावगति- 15 मिथ्यात्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तत्यप्युक्तम् । किं वा तदस्ति यत् सामान्यसमर्थनावसरे न कथितम् । तस्मात् तयैव नीत्यावयव्यपि सिद्ध एव, तद्ग्राहिणः प्रत्यक्षस्य निरपवादत्वात् । _' यत्तु 'देशभेदेनाग्रहणात्' 'तदग्रहे तबुद्धयभावात्' इति, तत्रावयवाश्रितत्वमेव निमित्तं नासत्त्वम् ।
देशभेदेन हि ज्ञानं तत्त्वे तस्य कथं भवेत् । न हि कश्चित् स्वतन्त्रोऽसावपि त्ववयवाश्रितः ।। यावतां ग्रहणे चास्मिन् बुद्धिर्भवति तावताम् ।
अपेक्षतेऽसौ ग्रहणे न सर्वेषामिति स्थितिः ।। सावयवत्वात् तस्यान्येऽवयवाः कल्प्याः , तेषामपि कल्पितावयवानां परस्परमयमेव न्याय 25 इत्यनवस्था । अथ निर्भागत्वात् परमाणोयंथैकेन सम्बन्धस्तथापरेणापीति, तदेवमेकदेशत्वादणुमात्रपरिमाणस्तत्सञ्चयः स्यादित्यर्थः ।
20