________________
10
न्यायमञ्जर्य्यां
बाह्यार्थाभावखण्डनम्
5
ये तु ब्रुवते, तिष्ठतु तावत् प्रमाणमात्रं प्रमेयमेव विकल्पयन्तो न बाह्यमर्थं कञ्चन निरपवादं प्रतिपद्यामहे । तथा हि न तावदयमवयवी घटादिरवकल्पते अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि यस्माद् व्यतिरिक्तः • स तदधिष्ठित देशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते घटादिव पटः, न चैवम-: वयवेभ्यः पृथग्देशा दृश्यन्ते, न चावयवानुपलब्धाववयवीति कथमेतेभ्यो भिद्यते, अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुमर्वाग्-, भागवर्तन एव गृह्येरन्न मध्यपरभागगता इति । यदा बुद्धया विविनक्तिः एष तन्तुरेष तन्तुरिति तदा प्राच्यादञ्चलात् प्रभृति प्रतीचीनमञ्चलं यावद् विविञ्चन्नसौ तन्तुसन्ततिमेव केवलामुपलभते न ततोऽतिरिक्तपटावयविनम् । वृत्त्यनुपपत्तेश्च, नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तेष्वपि कथं वर्तते अन्यैरेकदेशैस्तेष्वपि अन्यैरिति नास्त्यन्यः । असम्बद्धस्त्वेकदेशैरवयवेष्वस्तीति कथं तद्द्वारकैरपि सम्बध्येत । तस्माद् अयमपि न, अस्य वृत्तिरवयवेष्वस्तीति । कथं धारणाकर्षणादि त्वनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यते इत्यनै15 कान्तिकम् । एकाकारा तु प्रतीतिर्विकल्पमात्रम्, एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिष्विव सेनेति, धवखदिरपलाशादिष्विव वनमिति । सञ्चितेष्ववयवेष्वेव घट इत्यादि प्रतीतिर्भविष्यतीत्येवमवयव्यवयवावयवपर्यालोचनयाणुसञ्चयमात्रमेवावशिष्यते नान्यत् । सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततथा चिन्त्यमानो नास्त्येव इत्यणव एवावशिष्यन्ते । 20 परमाणवोऽपि,
25
[ नव॑मम्
'षट्केण युगपद् योगात् परमाणोः षडंशता' ।
इत्येवं विकल्प्यमाना विप्लवन्त एव, न च तैरतिसूक्ष्मैरेष व्यवहारोऽभि
धारणाकर्षणादि त्विति । एकस्यावयवस्य धारणे सर्वस्य धारणमेकस्य चाकर्षणे सर्वस्याकर्षंणमसत्यवयविनि न स्यादिति । काष्ठेति काष्ठमूलकेऽनारब्धकार्यत्वम् अन्त्यावयविनामनारम्भकत्वात् । षट्केण युगपद् योगादित्यस्योत्तरमर्धम् 'तेषां समानदेशत्वे पिण्डः स्यादणुमात्रकः । दिक्चतुष्टयादूर्ध्वभागादधोभागाञ्चागतैः परमाणुभिरेकस्य परमाणोरवश्यं योगो वक्तव्योऽन्यथा सञ्चयाभावात् । तत्र भिन्नैर्भागैर्योगः परमाणोः ।