________________
आह्निकम् ]
प्रमेयप्रकरणम् वासनाश्च स्वसदृशवासनासन्तानारम्भहेतव एव भवेयुर्न पुनरनुभवज्ञानमाधातुमुद्यच्छेयुः । सदृशात् सदृशोत्पत्तिरिति हि भवतां दर्शनम् ।
अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन सम्भवति, भगुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः, एकज्ञानाश्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रयभेदे तदानन्त्यम्, अनियमश्च । शतशाखः । न चालयविज्ञानं नाम किञ्चिदस्ति, सत्यपि तस्मिन्नशेषवासनासहस्रसमाश्रये तत् क्षणिकत्वात् सकृदेव तथाविधवासनानुकूलमूलज्ञानविनाशः स्यात् । पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिक्रमनियमो भवेदिति सर्वथा सङ्कटोऽयं पन्थाः । तस्मान्मृगतृष्णैषा तपस्विनां वासनात एव लोकयात्रासिद्धेः किं बाह्येनार्थेनेति ।
कृतमतिवाचालतया चिरमपि निपुणनिरूप्यमाणोऽतः । अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः ।। एकश्च बोधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिति । भिन्नप्रमाणात् फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ।।
10
द्वौ हि विज्ञानसन्तानौ, शक्तिविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानश्च । तत्र 15 प्रवृत्तिविज्ञानं शक्तिविज्ञानात् सहभाविनो लब्धपरिपाकां वासनामपेक्ष्य विशिष्टमुत्तरं प्रवृत्तिज्ञानं जनयति । शक्तिविज्ञानं च सहजप्रवृत्तिविज्ञानसहितं विशिष्टमुत्तरमालयविज्ञानमित्येवमुत्तरोत्तराण्यपि ज्ञानानि । वासनापरिपाकहेतुश्च क्वचित् तदेव सहभावि प्रवृत्तिज्ञानम्, यथा धूमज्ञानं स्वयमालयविज्ञानगतामग्निज्ञानवासनामुद्बोधयत् तया सहितमग्निज्ञानं जनयतीत्येवं च ज्ञानवैचित्र्यस्यापि न निर्हेतुकत्वम् । यदाह, ..
अनादिवासनाहेतुरलोकस्यावभासनम् ।
आलयज्ञानसन्तत्या ततो नाहेतुकं भवेत् ॥ तावुभौ ज्ञानसन्तानावेकत्रावस्थितावपटुत्वात् तु शक्तिरूपविज्ञानसन्तानाननुभवपटुत्वेन चेतरस्य संवित्तिरिति, एवं च कथं निराधारत्वादिचोद्यावकाश इत्याशङक्याह, न चालयविज्ञानं नाम किश्चिदस्तीति । आलीयन्ते प्रवृत्तिज्ञानैर्जनिता वासना 25 एकत्र यस्मिस्तदालयविज्ञानं शक्तिविज्ञानमिति चोच्यते ।