________________
५८
न्यायमञ्ज
[ नवमम् लाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ।
__ यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया ? अयि साधो किमद्यापि न परिहरसि सुचिरं गुणितां कल्पनावाचोयुक्तिम् । न
ह्यर्थः कल्प्यते अपि तु प्रतिभासत एव । बहुरूपस्य तु तस्यैकतमरूपपरिच्छेद5 नियमे किमपि वासनादि कारणं क्वचित् कल्प्यते, कस्तावतार्थनिह्नवस्यावकाशः ?
यच्चेत्थम्, वासनाभेद एव ज्ञानवैचित्र्यकारणम् इतरेतरकार्यकारणभावप्रबन्धश्च बीजाकुरवदनादिनिवासनयोरिति, तदप्यघटमानम् । . केयं
वासना नाम ? ज्ञानादव्यतिरिक्ता चेत् सापि स्वच्छरूपत्वान्न ज्ञानकालुष्य10 कारणं भवेत्, ज्ञानव्यतिरिक्ता चेद् वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ।
अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धः । संस्कारश्च यदनुभवघटितस्तत्रैव क्वचिदवसरे स्मरणमनुभवति, न पुनरसदेव वैचित्र्यमिदमीदृशमावहति ।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासकभावोऽपि निराकर्तव्यः । स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पका- . दिभिर्वास्यन्ते न तूत्पद्य सपद्येव नश्यद्भिनिस्ता,श्येव ज्ञानानीति ।
निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।
___ यतः कथञ्चिद् वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ 20 अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति ।
अनन्तत्वेऽपि खल्वासामारम्भे नियमः कुतः । असमञ्जसकारित्वे. व्यवहारस्य विप्लवः ॥ धूमज्ञानसमुत्पादे धूमवासनया कृते ।
कं तदा न जलज्ञानं जनयेज्जलवासना । किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानामित्यादिना वासनामात्रेण शब्दार्थाघटमानतामाहुः।